भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.196

3.196.1

मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च ।
पर्यपृच्छन्नृषिः केन दीर्घायुरासीद्बकः ॥

3.196.2

मार्कण्डेयस्तु तान्सर्वान्प्रत्युवाच महातपाः ।
दीर्घायुश्च बकोराजन्नृषिर्नात्र विचारणा ॥

3.196.3

एतच्छ्रुत्वा तु कौन्तेयो भ्रातृभिः सह भारत ।
मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥

3.196.4

बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ ।
सखायौ देवराजस् यतावृषी लोकसम्मतौ ॥

3.196.5

एतदिच्छामि भगवन्बकशक्रसमागमम् ।
सुखदुःखसमायुक्तं तत्त्वेन कथितं त्वया ॥
मार्कण्डेय उवाच ।

3.196.6

वृत्ते देवासुरे राजन्सन्ग्रामे रोमहर्षणे ।
त्रयाणामपि लोकानामिन्द्रो लोकाधिपोऽभवत् ॥

3.196.7

सम्यग्वर्षति पर्जन्ये सस्यसम्पद उत्तमाः । निरामयाः सुधर्मिष्ठाः प्रजा धर्मपरायणाः ।
मुदितश्च जनः सर्वः स्वधर्मेषु व्यवस्थितः ॥

3.196.8

ताः प्रजा मुदिताः सर्वा दृष्ट्रा बलनिषूदनः ।
ततस्तु मुदितोराजन्देवराजः शतक्रतुः ॥

3.196.9

ऐरावतं समास्थाय अपश्यन्मुदिताः प्रजाः ।
आश्रमांश्च विचित्रांश् नदीश्च विविधाः शुभाः ॥

3.196.10

नगराणि समृद्धानि घेटाञ्जनपदांस्तथा ।
प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः ॥

3.196.11

उदपानं प्रपा वापी तटाकानि सरांसि च ।
नानाब्रह्रह्मसमाचारैः सेवितानि द्विजोततमैः ॥

3.196.12

ततोऽवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः ।
तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले ॥

3.196.13

पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप । तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम् ।
तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥

3.196.14

बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाऽभवत् ।
पाद्यासनार्थदानेन फलमूलैरथार्चयत् ॥

3.196.15

सुखोपविष्टो वरदस्ततस्तु बलसूदनः ।
ततः प्रश्नं बकं देवं उवाच त्रिदशेश्वरः ॥

3.196.16

शतं वर्षसहस्राणि मुने जातस्य तेऽनघ ।
समाख्याहि मम ब्रह्मन्किं दुःखं चिरजीविनाम् ॥
बक उवाच ।

3.196.17

अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
असद्भिः सम्प्रयोगश्च तद्दुःखं चिरजीविनाम् ॥

3.196.18

पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि ।
परेष्वायत्तता कृच्छ्रं किन्नु दुःखतरं ततः ॥

3.196.19

नान्यद्दुःखतरं किञ्चिल्लोकेषु प्रतिभाति मे ।
अर्थैर्विहीनः पुरुषः एरैः सम्परिभूयते ॥

3.196.20

अकुलानां कुले भावं कुलीनानां कुलक्षयम् ।
संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥

3.196.21

अपिप्रत्यक्षमेवैतत्तव देघ शतक्रतो ।
अकुलानां समृद्धानां कथं कुलविपर्ययः ॥

3.196.22

देवदानवगन्धर्वमनुष्योरगराक्षसाः ।
प्राप्नुवन्ति विपर्यासं किन्नु दुःखतरं ततः ॥

3.196.23

कुले जाताश् क्लिश्यन्ते दौष्कुलेयवशानुगाः ।
आढ्यैर्दरिद्राऽवमताः किन्नु दुःखतरं ततः ॥

3.196.24

लोके वैधर्म्यमेतत्तु दृश्ते बहुविस्तरम् । हीनज्ञानाश्च हृष्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः ।
बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते ॥
इन्द्र उवाच ।

3.196.25

पुनरेव महाभाग देवर्षिगणसेवित ।
समाख्याहि मम ब्रह्मन्किं सुखं चिरजीविनाम् ॥
बक उवाच ।

3.196.26

अष्टमे द्वादशे वाऽपि शाकं यः पचते गृहे ।
कुमित्राण्यनपाश्रित् किं वै सुखतरं ततः ॥

3.196.27

यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम् ।
अपि शाकं पचानस्य सुखं वै मघवन्गृहे ॥

3.196.28

आर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कञ्चन ।
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥

3.196.29

परस्य तु गृहे भोक्तुः परिभूतस् नित्यशः ।
सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम् ॥

3.196.30

श्ववद्धि लोलुपो यस्तु परान्नं भोक्तुमिच्छति ।
धिगस्तु तस्य तद्भुक्तं कृपणस् दुरात्मनः ॥

3.196.31

यो दत्त्वाऽतिथिभृत्येभ्यः पितृभ्यश्च द्विजोत्तमः ।
शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ॥

3.196.32

अतो मृष्टतरं नान्यत्पूतं किञ्चितच्छतक्रतो ।
दत्त्वा यस्त्वतिथिभ्योऽन्नं भुङ्क्ते तेनैव नित्यशः ॥

3.196.33

तावतां गोसहस्राणां फलं प्राप्नोति दायकः ।
यदेनो यौवनकृतन्तत्सर्वं नश्यते ध्रुवम् ॥

3.196.34

रसदक्षिणस् भुक्तस् द्विजस्य तु करे गतम् ।
यद्वारि वारिणा सिञ्चेत्तद्ध्येनस्तरते क्षणात् ॥

3.196.35

एताश्चान्याश्च वै बह्वीः कथयित्वा कथाः शुभाः । बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc