महाभारत · अध्याय 3.197
ततः पाण्डवाः पुनर्मार्कण्डेयमूचुः ॥
कथितं ब्राह्मणमाहात्म्यं राजन्यमाहात्म्यमिदानीं शुश्रूषामह इति तानुवाच मार्कण्डेयो महर्षिः श्रूयतामिदानीं राजन्यानां माहात्म्यमिति ॥ कुरूणामन्यतमः सुहोत्रो नाम राजा महर्षीनभिगम्य निवृत्यरथस्थमेव राजानमौशीनरं शिबिं ददर्शाभिमुखं तौ समेत्य परस्परेण यथावयः पूजां प्रयुज्य गुणसाम्येन परस्परेण तुल्यात्मानौ विदित्वाऽन्योन्यस्य पन्थानं न ददतुस्तत्र नारदः प्रादुरासीत्किमिदं भवन्तौ परस्परस्य पन्थानमावृत्य तिष्ठत इति ॥
तावूचतुर्नारदं नैतद्भगवन्पूर्वकर्मकर्त्रादिभिर्विशिष्टस् पन्था उपदिश्यते समर्थाय वा आवां च सख्यं परस्परेणोपगतौ तच्चावधानतोऽत्युत्कृष्टमधरोत्तरं परिभ्रष्टम् ॥
नारदस्त्वेवमुक्तः श्लोकत्रयमपठत् ॥
क्रूरः कौरव्य मृदवे मृदुः क्रूरे च कौरव ।
साधुश्चासाधवे साधुः साधवे नाप्नुयात्कथम् ॥
कृतं शतगुणं कुर्यान्नास्ति देवेषु निर्णयः ।
औशीनरः साधुशीलो भवतो वै महीपतिः ॥
जलेत्कदर्यं दानेन सत्येनानृतवादिनम् ।
क्षमया क्रूरकर्माणमसाधुं साधुना जयेत् ॥
तदुभावेव भवन्तावुदारौ य इदानीं भवद्भ्यामन्यतमः सोपसर्पतु एतद्वै निदर्शनमित्युक्ताव तूष्णीं नारदो बभूव ॥ एतच्छ्रुत्वा तु कौरव्यः शिबिं प्रदक्षिणं कृत्वा पन्थानं दत्त्वा बहुकर्मभिः प्रशस्य प्रययौ ॥
तदेतद्राज्ञो महाभाग्यमप्युक्तवान्नारदः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0