भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.195

3.195.1

भूय एव ब्राह्मणमाहात्म्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ॥

3.195.2

अथाचष्ट मार्कण्डेयोऽपूर्वमिदं श्रूयतां ब्राह्मणानां चरितम् ॥

3.195.3

अयोध्यायामिक्ष्वाकुकुलोद्वहः पार्थिवः परीक्षिन्नाम मृगयामगमत् ॥

3.195.4

स एकोऽश्वेन मृगमन्वसरत् मृगो दूरमपाहरत् ॥

3.195.5

अध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्चैकस्मिन्देशे नीलं गहनं वनषण्डमपश्यत् ॥

3.195.6

तस्याविशेषतो वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥

3.195.7

अथाश्वस्तः स बिसमृणालमश्वायाग्रतो निक्षिप्य पुष्करिणीतीरे संविवेश ततः शयानो मधुरन्गीतमशृणोत् ॥

3.195.8

स श्रुत्वाऽचिन्तयन्नेह मनुष्यगतिं पश्यामि कस्य स्वल्वयं गीतंशब्द इति ॥

3.195.9

अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च अथ सा राज्ञः समीपे पर्यक्रामत् ॥

3.195.10

तामब्रवीद्राजा कस्यासि भद्रे का वा त्वमिति सा प्रत्युवाच कन्याऽस्मीति तां राजोवाचार्थी त्वयाऽहमिति ॥

3.195.11

अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुं नान्यथेति राजा तां समयमपृच्छत् मण्डूकराजस्य कः समय इति ततः कन्येदमुवाच नोदकं मे दर्शयितव्यमिति ॥

3.195.12

स राजा तां बाढमित्युक्त्वा तां समागम्य तयासह तत्र तस्थौ ॥

3.195.13

ततस्तत्रैवासीने राजनि सा सेनाऽन्वगच्छत् ॥

3.195.14

पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत अथ पर्याश्वस्तश्च राजा तयैव सह शिविकया प्रायादविषादः स्वनगरमनुप्राप्य रहसि तया रममाणो न कांश्चिदपश्यत् ॥

3.195.15

अथ प्रधानामात्योऽभ्याशचरास्तस्य स्त्रियोऽपृच्छत् ॥

3.195.16

किमत्र प्रयोजनं वर्तते इत्यथाब्रुवंस्ताः स्त्रियः ॥

3.195.17

अपूर्वमिव पश्याम उदकं नात्र नीयत इत्यथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुपुष्पफलमूलं तस्य मध्ये मुक्ताजालमयीं पार्श्वे वापीं गूढां सुधोपलिप्तां स रहस्युपगम्य राजानमब्रवीत् ॥

3.195.18

वनमिदमुदारमनुदकं साध्वत्र सहैतया गम्यतामिति ॥

3.195.19

स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत्स कदाचित्तस्मिन्कानने रम्ये तयैव स व्यवाहरदथक्षुत्तृष्णार्दितः श्रान्तोऽतिमुक्तागारमपश्यत् ॥

3.195.20

तत्प्रविश्यराजा सह प्रियया सुसंस्कृतां विमलां सलिलपूर्णां वापीमपश्त् ॥

3.195.21

दृष्ट्वैव च तां तस्याश्च तीरे सहैव तया देव्याऽवातिष्ठत् ॥

3.195.22

अथ ता देवीं स राजाऽब्रवीत्साध्ववतर वापीसलिलमिति सा तद्वच श्रुत्वाऽवतीर्य वापीं न्यमज्जन्न पुनरुदकादुदमज्जत् ॥

3.195.23

तां स मृगयमाणो राजा नापश्यद्वापीमथ निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास स राजा ॥

3.195.24

सर्वमण्डूकवधः क्रियतामिति योमयाऽर्थी स मां मृतमण्डूकोपायनमादायोपतिष्ठेदिति ॥

3.195.25

अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु रमण्डूकान्भयमाविवेश ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥

3.195.26

ततो मण्डूकराट् तापसवेषधारी राजानमभ्यगच्छदुपेत्य चैनमुवाच ॥

3.195.27

मा राजन्क्रोधवशं गमः प्रसादं कुरु नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति श्लोकौ चात्र भवतः ॥

3.195.28

मा मण्डूकाञ्जिघांसीस्त्वं कोपं सन्धारयाच्युत । प्रक्षिपन्ति वधाद्भेका जनानां परिजानताम् ॥

3.195.29

प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे । अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ॥

3.195.30

तमेवंवादिनमिष्टजनवियोगशोकपरीतात्मा राजाऽथोवाच ॥

3.195.31

न हि क्षम्यते तन्मया हनिष्याम्येतानेतैर्दुरात्मभिः प्रिया मे भक्षिता सर्वथैव मे वध्या मण्डूका नार्हसि विद्वन्मामुपरोद्धुमिति ॥

3.195.32

स तद्वाक्यमुपलभ्यव्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नाम मण्डूकराजो मम सा दुहिता सुशोभना नाम तस्या हि दौःशील्यमेतद्बहवस्तया राजानो विप्रलब्धपूर्वा इति ॥

3.195.33

तमब्रवीद्राजा या सा तव रदुहिता तया समर्थी सा मे दीयतामिति ॥

3.195.34

अथैनां राज्ञे पिताऽदादब्रवीच्चैनामेनं राजानं शुश्रूषस्वेति ॥

3.195.35

स एवमुक्त्वा दुहितरं क्रुद्धः शशाप यस्मात्त्वया राजानो विप्रलब्धा बहवस्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यानृतिकत्वात्तवेति ॥

3.195.36

स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पसन्दिग्धया वाचा प्रणिपत्याभिपूज्य मण्डूकराजमब्रवीदनुगृहीतोस्मीति ॥

3.195.37

स च मण्डूकराजो दुहितरमनुज्ञाप्य यथागतमगच्छत् ॥

3.195.38

अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥

3.195.39

अथ कदाचिच्छलो मृगयामनुचरन्मृगमासाद्य रथेनान्वधावत् ॥

3.195.40

सूतं चोवाच शीघ्रं मां वाहयस्वेति स तथोक्त सूतो राजानमब्रवीत् ॥

3.195.41

न क्रियतामनुबन्धो नैष शक्यस्त्वया मृगोऽयं ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ततोऽब्रवीद्राजा सूतमाचक्ष्व मे वाभ्यौ वाजिनौ त्वा पृच्छामीति ॥ स एवमुक्तो राजभयभीतः सूतो वामदेवशापभयभीतश्चास्योपाचख्यौ ॥ वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥

3.195.42

अथैनमेवं ब्रुवाणमब्रवीद्राजा वामदेवाश्रमं प्रयादहीति स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् ॥

3.195.43

भगवन्मृगो मे विद्धः पलायते सम्भावयितुमर्हसि वाम्यौ दातुमिति तमब्रवीदृषिर्ददानि ते वाम्यौ कृतकार्येण भवता ममैव वाम्यौ निर्यातयितव्यौ क्षिप्रमिति स च तावश्वौ प्रतिगृह्यानुज्ञाप्य ऋषिं प्रायाद्वाजियुक्तेन रथेन मृगं प्रति गच्छंश्चाब्रवीत्सूतमश्वरत्नद्वयमावयोर्योग्यं नैतौ प्रतिदेयौ वामदेवायेत्युक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ॥

3.195.44

अथर्षिश्चिन्तयामास तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न मे वाम्यौ प्रतिनिर्यातयत्यहो कष्टमिति ॥

3.195.45

स मनसा विचिन्त्य मासि पूर्णे शिष्यमब्रवीत् ॥

3.195.46

गच्छात्रेय राजानं ब्रूहि यदि पर्याप्तं निर्यातयोगाध्यायवाम्याविति स गत्वैवं तं राजानमब्रवीत्तराजा प्रत्युवाच राज्ञामेतद्वाहनमनर्हा ब्राह्मणा रत्नानामेवंविधानां न किञ्चित् ब्राह्मणानामश्वैः कार्यं साधु गम्यतामिति ॥

3.195.47

स गत्वैतदुपाध्यायायाचष्ट तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमचोदयन्न चाददद्राजा ॥
वामदेव उवाच ।

3.195.48

प्रपच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमाभ्यामशक्यम् ।
मा त्वा वधीद्वरुणो घोरपाशै- र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ॥
राजोवाच ।

3.195.49

अनड्वाहौ सुव्रतौ साधु दान्ता- वेतद्विप्राणां वाहनं वामदेव ।
ताभ्यां याहि त्वं यत्र कामो महर्षे- च्छन्दांसि वै त्वादृशं संवहन्ति ॥
वामदवे उवाच ।

3.195.50

छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन्पार्थिव यानि सन्ति ।
अस्मिस्तु लोके मम यानमेत- दस्मद्विधानामपरेषां च राजन् ॥
राजोवाच ।

3.195.51

चत्वारस्त्वां वा गर्दभाः संवहन्तु श्रेष्ठाश्वतर्यो हरयो वातरंहाः ।
तैस्त्वं याहि रक्षत्रियस्यैष वाहो ममैव वाम्यौ न तवैतौ हि विद्धि ॥
वामदेव उवाच ।

3.195.52

घोरं व्रतं ब्राह्मणस्यैतदाहु- रेतद्राजन्यदिहाजीवमानः ।
अयस्मया घोररूपा महान्त- श्चत्वारो वा यातुधानाः सुरौद्राः । मया प्रयुक्तास्त्वद्वधमीप्समाना वहन्तु त्वां शितशूलाश्चतुर्धा ॥
राजोवाच ।

3.195.53

ये त्वां विदुर्ब्राह्मणं वामदेव वाचा हन्तुं मनसा कर्मणा वा ।
ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥
[वामदेव उवाच ।

3.195.54

ममैतौ वाम्यौ प्रतिगृह्य राजन् पुनर्ददानीति प्रपद्य मे त्वम् ।
प्रयच्छ शीघ्रं मम वाम्यौ त्वमश्वौ यद्यात्मानं जीवितुं ते क्षमं स्यात् ॥
राजोवाच ।

3.195.55

न ब्राह्मणेभ्यो मृगया प्रसूता न त्वाऽनुशास्म्यद्यप्रभृति ह्यसत्यम् ।
तवैवाज्ञां सम्प्रणिधाय सर्वां तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥ ]
वामदेव उवाच ।

3.195.56

नानुयोगा ब्राह्मणानां भवन्ति वाचा राजन्मनसा कर्मणा वा ।
यस्त्वेवं ब्रह्म तपसाऽन्वेति विद्वां- स्तेन श्रेष्ठो भवति हि जीवमानः ॥
मार्कण्डेय उवाच ।

3.195.57

एवमुक्ते वामदेवेन राजन् समुत्तस्थू राक्षसा घोररूपाः ।
तैः शूलहस्तैर्वध्यमानः स राजा प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ॥

3.195.58

इक्ष्वाकवो वा यदि मां त्यजेयु- र्ये ते विधेया भुवि चान्ये महीपाः ।
नोत्स्रक्ष्येऽहं वामदेवस् वाम्यौ नैवंविधा धर्मशीला भवन्ति ॥

3.195.59

एवं ब्रुवन्नेव स यातुधानै- र्हतो जगामाशु महीं क्षितीशः ।
ततो विदित्वा नृपतिं निपातित- मिक्ष्वाकवो वै दलमभ्यषिञ्चन् ॥

3.195.60

राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः ।
दलं राजानं ब्राह्मणानां हि देय- मेवं राजन्सर्वधर्मेषु दृष्टम् ॥

3.195.61

बिभेषि चेत्त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ ।
एतच्छ्रुत्वा वामदेवस् वाक्यं स पार्थिवः सूतमुवाच रोषात् ॥

3.195.62

एकं हि मे सायकं चित्ररूपं दुग्धं विषेणाहरसन्गृहीतम् ।
येन विद्धो वामदेवः शयीत सन्दश्यमानः श्वभिरार्तरूपः ॥
वामदेव उवाच ।

3.195.63

जानामि पुत्रं दशवर्षं तवाहं जातं महिष्यां श्येनजितं नरेन्द्र ।
एतं जहि त्वं मद्वचनात्प्रणुन्न- स्तूर्णं प्रियं सायकैर्घोररूपैः ॥
मार्कण्डेय उवाच ।

3.195.64

एवमुक्तो वामदेवेन राजन्न- न्तःपुरे राजपुत्रं जघान ।
स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तत्र वाक्यं बभाषे ॥

3.195.65

इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रमद्य प्रमथ्य ।
आनीयतामपरस्तिग्मतेजाः पश्यध्वं मे वीर्यमद्य क्षितीशाः ॥
वामदेव उवाच ।

3.195.66

यत्त्वमेनं सायकं घोररूपं विषेण दिग्धं मम सन्दधासि ।
न त्वेतं त्वं शरवर्षं विमोक्तुं सन्धातुं वा शक्ष्यसे मानवेन्द्र ॥
राजोवाच ।

3.195.67

इक्ष्वाकवः पश्त मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम्
न चास्य कर्तुं नाशमभ्युत्सहामि आयुष्मान्वै जीवतु वामदेवः ॥
वैमदेव उवाच ।

3.195.68

संस्पृश्यैनां महीषीं सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम् ।
ततस्तथा कृतवान्पार्थिवस्तु ततो मुनिं राजपुत्री बभाषे ॥

3.195.69

यथा युक्ता वामदेवाहमेनं दिनेदिने सन्दिशन्ती नृशंसम् ।
ब्राह्मणेभ्यो मृगयती सूनृतानि तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥
वामदेव उवाच ।

3.195.70

त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते ।
प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥
राजपुत्र्युवाच ।

3.195.71

वरं वृणे भगवंस्त्वेवमेष विमुच्यतां किल्विषादद्य भर्ता ।
शिवेन जीवामि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजाग्र्य ॥
मार्कण्डेय उवाच ।

3.195.72

श्रुत्वा वच स मुनी राजपुत्र्या- स्तथाऽस्त्विति प्राह कुरुप्रवीर ।
ततः स राजा मुदितो बभूव वाम्यौ चास्मै प्रददौ सम्प्रणम्य ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc