भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.184

3.184.1

निदाघान्तकरः कालः सर्वभूतसुखावहः ।
तत्रैव वसतां तेषां प्रावृट् समभिपद्यत ॥

3.184.2

छादयन्तो महाघोषाः स्वं दिशश्च बलाहकाः ।
प्रववर्षुर्दिवारात्रमसिताः सततं तदा ॥

3.184.3

तपात्ययनिकेताश्च शतशोऽथ सहस्रशः ।
अपेतार्कप्रभाजालाः सविद्युन्मण्डप्रभाः ॥

3.184.4

विरूढशष्पा धरणी मत्तदंशसरीसृपा ।
बभूव पयसा सिक्ता शान्तधूमरजोगणा ॥

3.184.5

न स्म प्रज्ञायते किञ्चिदम्भसा समवस्तृते ।
समं वा विषमं वाऽपि नद्यो वा स्तावराणि वा ॥

3.184.6

क्षुब्धतोया महावेगाः श्वसमाना इवाशुगाः ।
सिन्धवः शोभयाञ्चक्रुः काननानि तपात्यये ॥

3.184.7

नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः ।
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ॥

3.184.8

स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह ।
मत्ताः परिपतन्ति स्म दर्दुरश्चैव दर्पिताः ॥

3.184.9

तदा बहुविधाकारा प्रावृण्मेघानुनादिता ।
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ॥

3.184.10

क्रौञ्चहंससमाकीर्णा शरत्प्रमुदीताऽभवत् ।
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ॥

3.184.11

विमलाकाशनक्षत्रा शरत्तेषां शिवाऽभषत् ।
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ॥

3.184.12

दृश्यन्ते शान्तरजसः क्षपाजलदशीतलाः ।
ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ॥

3.184.13

कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः ।
नदीः पुष्करिणीश्चैव ददृशुः समलन्कृताः ॥

3.184.15

ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् ।
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ॥

3.184.16

तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी ।
तत्रैव वसतामासीत्कार्तिकी जनमेजय ॥

3.184.17

पुण्यकृद्भिर्महासत्वैस्तापसैः सह पाण्डवाः ।
तत्सर्वं भरतश्रेष्ठ समूहुर्योगमुत्तमम् ॥

3.184.18

तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः । सूतैः पौरोगवैः साकं काम्यकं प्रययुर्वनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc