भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.183

3.183.1

भवानेतादृशो लोके वेदवेदाङ्गपारगः ।
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ 1 ॥
सर्प उवाच ।

3.183.2

पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत ।
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥
युधिष्ठिर उवाच ।

3.183.3

दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते ।
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ॥
सर्प उवाच ।

3.183.4

दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च ।
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥

3.183.5

क्वचिद्दानप्रयोगाद्धि सत्यमेव विशिष्यते ।
सत्यवाक्याच्च राजेनद्र क्वचिद्दानं विशिष्यते ॥

3.183.6

एवमेव महेष्वास प्रियवाक्यान्महीपते ।
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥

3.183.7

एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् ।
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥
युधिष्ठिर उवाच ।

3.183.8

कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् ।
अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे ॥
सर्प उवाच ।

3.183.9

तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः ।
मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत्रिधा ॥

3.183.10

तत्र वै मानुषाल्लोकाद्दानादिभिरनादिभिः ।
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥

3.183.11

विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् ।
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥

3.183.12

क्रामक्रोधसमायुक्तो हिंसालोभसमनवितः ।
मनुष्यत्वात्परिब्रष्टस्तिर्यग्योनौ प्रसूयते ॥

3.183.13

तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते ।
गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते ॥

3.183.14

सोयमेता गतीस्तात जन्तुश्चरति कार्यवान् ।
निम्ने महति चात्मानमवस्थाप्य च वै नृप ॥

3.183.15

जातो जातश्च बलवान्भुङ्क्ते नाम्नाऽथ देहवान् ।
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ॥
युधिष्ठिर उवाच ।

3.183.16

शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः ।
तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम् ॥

3.183.17

किं न गृह्णासि विषयान्युगपत्त्वं महामते ।
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥
सर्प उवाच ।

3.183.18

तदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् ।
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविथि ॥

3.183.19

ज्ञानं चैवात्र बुद्धिश्च कमश्च भरतर्षभ ।
तस्य भोगाधिकरणे करणानि निबोध मे ॥

3.183.20

मनसा तात पर्येति क्रमशो विषयानिमान् ।
विषयायतनत्वेन भूतात्मा क्षेत्रविष्ठितः ॥

3.183.21

तत्रचापि नरव्याघ्र मनो जन्तोर्विधीयते ।
तस्माद्युगपदत्रास्य ग्रहणं नोपपद्यते ॥

3.183.22

स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः ।
बुद्धिं द्रव्येषु सृजति विविधेषु परावराम् ॥

3.183.23

बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः ।
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥
युधिष्ठिर उवाच ।

3.183.24

मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् ।
एतदध्यात्मविदुषां परं कार्यं विधीयते ॥
सर्प उवाच ।

3.183.25

बुद्धिरात्मानुगाऽतीव उत्पातेन विधीयते ।
तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत् ॥

3.183.26

बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि ।
बुद्धेर्गुणविधानेन मनस्तद्गुणवद्भवेत् ॥

3.183.27

एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् ।
त्वमप्यत्राभिसम्बुद्धः कथं वा मनय्से स्वयम् ॥
युधिष्ठिर उवाच ।

3.183.28

अहो बुद्धिमतांश्रेष्ठ शुभा बुद्धिरियं तव ।
विदितं वेदितव्यं ते कस्मान्नहुष पृच्छसि ॥

3.183.29

सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् ।
एवमद्भुतकर्माणमिति मे संशयो महान् ॥
सर्प उवाच ।

3.183.30

सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् ।
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥

3.183.31

सोहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर ।
पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् ॥

3.183.32

कृतन्कार्यं महाराज त्वया मम परन्तप ।
क्षीणः शाप सुकृच्छ्रो मे त्वया सम्भाष्य साधुना ॥

3.183.33

अहं हि दिवि दिव्येन विमानन चरन्पुरा ।
अभिमानेन मत्तः सन्कञ्चिन्नान्यमचिन्तयम् ॥

3.183.34

ब्रह्मर्षिदेघगन्धर्वयक्षराक्षसपन्नगाः ।
वरं मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥

3.183.35

चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते ।
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम ॥

3.183.36

ब्रह्मर्षीणां सरस्रं हि उवाह शिबिकां मम ।
कस मामपनयो राजन्भ्रंशयामास वै श्रियः ॥

3.183.37

तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो महामुनिः ।
अगस्त्येन ततोस्म्युक्तो ध्वंस सर्पेति वैरुषा ॥

3.183.38

ततस्तस्माद्विमानाग्र्यात्प्रच्युतश्च्युतलक्षणः ।
प्रपतन्बुबुधेऽत्मानं व्यालीभूतमधोमुखम् ॥

3.183.39

अयाचं तमहं विप्रं शापस्यान्तो भवेदिति ।
प्रमादात्सम्प्रमूढस्य भगवन्क्षन्तुमर्हसि ॥

3.183.40

ततः स मामुवाचेदं प्रपतन्तं कृपानवितः ।
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥

3.183.41

अभिमानस्य वै तस्य बलस्य च नराधिप ।
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥

3.183.42

ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् ।
ब्रह्म च ब्राह्मणत्वं च येन त्वाऽहमचूचुदम् ॥

3.183.43

सत्यं दमस्तपो योगमहिंसा ज्ञाननित्यता ।
साधकानि सतां पुंसां न जातिर्नकुलं नृप ॥

3.183.44

अरिष्ट कएष ते भ्राता मुक्तो बीमो महाभुज ।
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥

3.183.45

स चायं पुरुषव्याघ्र कालः पुण्य उपागतः ।
तदस्मात्कारणात्पार्थ कार्यं तन्मे महत्कृतम् ॥
वैशम्पायन उवाच ।

3.183.46

ततस्तस्मिन्मुहूर्ते तु विमानं कामगामि वै ।
अवपातेन महता तत्रावाप तदुत्तमम् ॥

3.183.47

इत्युक्त्वाऽजगरं देहं मुक्त्वा स नहुषो नृपः ।
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥

3.183.48

युधिष्ठिरोपि धर्मात्मा भ्रात्रा भीमेन सन्गतः ।
धौम्येन सहितः श्रीमानाश्रमं पुनरागमत् ॥

3.183.49

ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् ।
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥

3.183.50

तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः ।
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥

3.183.51

ते तु सर्वेद्विजश्रेष्ठाः पाण्डवानां हितेप्सया ।
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस् साहसम् ॥

3.183.52

पाण्डवास्तु भयान्पुक्तं प्रेक्ष्य भीमं महाबलम् । हर्षमाहारयाञ्चक्रुर्विजह्रुश्च मुदा युताः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc