भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.185

3.185.1

काम्यकं प्राप्य कौरव्य युधिष्ठिरपुरोगमाः ।
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥

3.185.2

ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् ।
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥

3.185.3

अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा ।
स एष्यति महाबाहुर्वशी शौरिरुदारधीः ॥

3.185.4

विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः ।
सदा हि दर्शनाकाङ्क्षी श्रेयोन्वेषी च वो हरिः ॥

3.185.5

बहुवत्सरजीवी च मार्कण्डेयो महातपाः ।
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥

3.185.6

तथैव ब्रुवतस्तस्य प्रत्यदृश्यत केशवः ।
शैब्यसुग्रीवयुक्तेन रथेन रथिनारः ॥

3.185.7

मघवानिव पौलोम्या सहितः सत्यभामया ।
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥

3.185.8

अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि ।
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥

3.185.9

पूजयामास धौम्यं च यमाभ्यामभिवादितः ।
परिष्वज्यमहाभागां द्रौपदीं पर्यसान्त्वयत् ॥

3.185.10

स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् ।
पर्यष्वजत दाशार्हः पुनः पुनररिन्दमः ॥

3.185.11

तथैव सत्यभामाऽपि द्रौपदीं परिषस्वजे ।
पाण्डवानां प्रियं भार्यां कृष्णस्य महिषी प्रिया ॥

3.185.12

ततस्ते पाण्डवाः सर्वेसभार्याः सपुरोहिताः ।
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥

3.185.13

कृष्णस्तु पार्थेन समेत्य विद्वान् धनञ्जयेनासुरमर्दनेन ।
बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद्भगवान्गुहेन ॥

3.185.14

ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय ।
उक्त्वा यथावत्पुनरन्वपृच्छ- त्तस्मिन्सुभद्रां च तथाऽभिमन्युम् ॥

3.185.15

धौम्यं च कृष्णां च युधिष्ठिरं च यमौ च भीमं च दशार्हसिंहः ।
उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः ॥

3.185.16

स पूजयित्वा मधुहा यथाव- त्पार्थांश्च कृष्णां च पुरोहितं च ।
उवाच राजानमभिप्रशंसन् युधिष्ठिरं तेन सहोपविश्य ॥

3.185.17

धर्मः परः पाण्डव राज्यलाभा- त्तस्यादिमाहुस्तप एव राजन् ।
सत्यार्जवाभ्यां चरता स्वधर्मं जितस्त्वयाऽचं परश्च लोकः ॥

3.185.18

अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम् ।
क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥

3.185.19

न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किञ्चित्कुरुषे नरेन्द्र ।
न चार्तलोभात्प्रजहासि धर्मं तस्मात्प्रभावादसि धर्मराजः ॥

3.185.20

दानं च सत्यं च तपश्च राजन् क्षमा च शान्तिश्च दमो धृतिश्च ।
अवाप्य राष्ट्राणि वसूनि भोगा- नेषा परा पार्थ सदा रतिस्ते ॥

3.185.21

हृतं च देशं कुरुजाङ्गलानां कृष्णां सभायामशां च पश्यन् ।
अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः ॥

3.185.22

असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक् ।
अद्यैव तन्निग्रहणं कुरूणां यदि प्रतिज्ञा भवतः समाप्ता ॥

3.185.23

प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितः सुहृद्भिः ।
कदिष्ट्या समग्राऽसि धनञ्जयेन समागतेत्येवमुवाच कृष्णः ॥

3.185.24

कृष्णे धनुर्वेदरतिप्रदाना- स्तवात्मजास्ते शिशवः शुशीलाः ।
सद्भिः सदैवाचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि ॥

3.185.25

राज्ये नियुक्तैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च ।
न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति ॥

3.185.26

आनर्तमेवाभिमुखाः शिवेन गत्वाधनुर्वेदरतिप्रधानाः ।
तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥

3.185.27

यथा त्वमेवार्हसि तेषु वृत्तं प्रयोक्तुमार्या च यथैव कुन्ती ।
तेष्वप्रमादेन तथा करोति तथैव भूयश्च तथा सुभद्रा ॥

3.185.28

यथाऽनिरुद्धस्य यथाऽभिमन्यो- र्यथा सुनीथस्य यथैव भानोः ।
तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः ॥

3.185.29

गदासिचर्मग्रहणेषु शूरा- नस्त्रेषु शिक्षासु रथाश्वयाने ।
सम्यग्विनेता विनयेदतन्द्री- स्तांश्चाभिमन्युं च सदा कुमारान् ॥

3.185.30

स चापि सम्यक्प्रणिधाय शिक्षां शस्त्राणै चैषां विधिवत्प्रदाय ।
तवात्मजानां च तथाऽभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः ॥

3.185.31

यथा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि ।
एकैकमेषामनुयान्ति यत्र रथाश्च यानानि च दन्तिनश्च ॥

3.185.32

अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुकुरान्धकाश्च ।
एते निदेशं तव पालयन्त- स्तिष्ठन्तु यत्रेच्छसि तत्र राजन् ॥

3.185.33

आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रणा मधूनाम् ।
सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा ॥

3.185.34

प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः सुयोधनः पापकृतां वरिष्ठः ।
स सानुबन्धः ससुहद्गणश्च भौमस्य सौबाधिपतेश्च मार्गम् ॥

3.185.35

कामं तथा तिष्ठ नरेन्द्र तस्मि- न्यथा कृतस्ते समयः सभायाम् ।
दाशार्हयोधैस्तु हतारियोधं प्रतीक्षतां नागपुरं प्रभग्नम् ॥

3.185.36

व्यपेतमन्युर्व्यपनीतपाप्मा विहृत् यत्रेच्छसि तत्र कामम् ।
ततः समृद्धिप्रभवं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥

3.185.37

ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन ।
प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच ॥

3.185.38

असंशयं केशव पाण्डवानां भवान्गतिस्त्वच्छरणा हि पार्थाः ।
कालोदये तच्च ततश्च भूयः कर्ता भवान्कर्म न संशयोस्ति ॥

3.185.39

यथाप्रतिज्ञं विहृतश्च कालः सर्वाः समा द्वादश निर्जनेषु ।
अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः ॥

3.185.40

एषैव बुद्धिर्जुषतां सदा त्वां सत्ये स्थिताः केशव पाण्डवेयाः ।
सदानधर्माः सजलाः सदाराः सबान्धवास्त्वच्छरणा हि पार्थाः ॥
वैशम्पायन उवाच ।

3.185.41

तथा वदतिवार्ष्णेये धर्मराजे च भारत । अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ।
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ॥

3.185.42

अजरश्चामरंश्चैव रूपौदार्यगुणान्वितः ।
व्यदृश्यत तथा युक्तो यथा स्यात्पञ्चविंशकः ॥

3.185.43

तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् ।
उपातिष्ठन्त ते सर्वेपाण्डवाः सहयादवाः ॥

3.185.44

तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् ।
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥

3.185.45

शुश्रूपवः पाण्डवास्ते ब्राह्मणाश्च समागताः ।
द्रौपदी सत्यभामा च तथाऽहम्परमं वचः ॥

3.185.46

पुरावृत्ताः कथाः पुण्याः सदाचारान्सनातनान् ।
राज्ञांस्त्रीणामृषीणां च मार्कणअडेय प्रचक्ष्व नः ॥
वैशम्पायन उवाच ।

3.185.47

तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः ।
आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥

3.185.48

तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः ।
पाद्यार्ध्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः ॥

3.185.49

नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् ।
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥

3.185.50

उवाच चैनं कालज्ञं स्मयन्निव सनारदः ।
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥

3.185.51

एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः ।
क्षणं कुरुध्वंविपुलमाख्यातव्यं भविष्यति ॥

3.185.52

एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः । मध्यन्दिने यथादित्यं प्रेक्षन्तस्ते महामुनिम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc