भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.180

3.180.1

कथं नागायुतप्राणो भीमो भीमपराक्रमः ।
भयमाहारयत्तीव्रं तस्मादजगरान्मुने ॥

3.180.2

पौलस्त्यं धनदं युद्दे य आह्वयति दर्पितः ।
नलिन्यां कदनं कृत्वा निहन्ता यक्षरक्षसाम् ॥

3.180.3

तं संससि भयाविष्टमापन्नमरिसूदनम् ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥
वैशम्पायन उवाच ।

3.180.4

बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् ।
प्राप्तानामाश्रमं राजन्राजर्षेर्वृषपर्वणः ॥

3.180.5

यदृच्छया धनुष्पाणिर्बद्धखङ्गो वृकोदरः ।
ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥

3.180.6

स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा ।
देवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥

3.180.7

चकोरैरुपचक्रैशच् पक्षिभिर्जीवजीवकैः ।
कोकिलैर्भृङ्गराजैश्च तत्र तत्र निनादितान् ॥

3.180.8

नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः ।
उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥

3.180.9

स सम्पश्यन्गिरिनदीर्वैडूर्यमणिसन्निभैः ।
सलिलैर्हिमसन्काशैर्हंसकारण्डवायुतैः ॥

3.180.10

वनानि देवदारूणां मेघानामिव वागुराः ।
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ॥

3.180.11

मृगयां परिधावन्स समेषु मरुधन्वसु ।
विध्यन्मृगाञ्शरैः शुद्धैश्चचार स महाबलः ॥

3.180.12

भीमसेनस्तु विख्यातो महान्तं दंष्ट्रिणं बलात् ।
निघ्नन्नागशतप्राणो वने तस्मिन्महाबलः ॥

3.180.13

मृगाणां सवराहाणां महिषाणां महाभुजः ।
विनिघ्नंस्तत्रतत्रैव भीमो भीमपराक्रमः ॥

3.180.14

स मातङ्गशतप्राणो मनुष्यशतवारणः ।
सिंहशार्दूलविक्रान्तो वने तस्मिन्महाबलः ॥

3.180.15

वृक्षानुत्पाटयामास तरसा वै बभञ्ज च ।
पृथिव्याश्च प्रदेशान्वै नादयंस्तु वनानि च ॥

3.180.16

पर्वताग्राणि वै मृद्गन्नादयानश्च विज्वरः ।
प्रक्षिपन्पादपांश्चापि नादेनापूरयन्महीम् ॥

3.180.17

वेगेन न्यपतद्भीमो निर्भयश्च पुनः पुनः । आस्फोटयन्क्ष्वेडयंश्च तलतालांश्च वादयन् ।
चिरसम्बद्धदर्पस्तु भीमसेनो वने तदा ॥

3.180.18

गजेनद्राश्च महासत्वा मृगेन्द्राश्च महाबलाः ।
भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात् ॥

3.180.19

क्वचित्प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा ।
मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः ॥

3.180.20

स तत्रमनुजव्याघ्रो वने वनचरोपमः ।
पद्भ्यामभिसमापेदे भीमसेनो महाबलः ॥

3.180.21

स प्रविष्टो महारण्ये नादान्नदति चाद्भुतान् ।
त्रासयन्सर्वभूतानि महासत्वपराक्रमः ॥

3.180.22

ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः । अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः ।
ततोऽमरवरप्रख्यो भीमसेनो महाबलः ॥

3.180.23

स ददर्श महाकायं भुजङ्गं रोमहर्षणम् ।
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥

3.180.24

पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः ।
चित्राङ्गमङ्गजैश्चित्रैर्हरिद्रासदृशच्छविम् ॥

3.180.25

गुहाकारेण वक्रेण चतुर्दंष्ट्रेण राजता ।
दीप्ताक्षेणातिताम्रेण लिहानं सृक्विणी मुहुः ॥

3.180.26

त्रासनं सर्वभूतानां कालान्तकयमोपमम् ।
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ॥

3.180.27

स भीमं सहसाऽभ्येत्य पृदाकुः क्षुधितो भृशम् ।
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥

3.180.28

तेन संस्पृष्टगात्रस्य भीमसेनस्य वै तदा ।
सञ्ज्ञा मुमोह सहसा वरदानेन तस्य हि ॥

3.180.29

दशनागसहस्राणि धारयन्ति हि यद्बलम् ।
इद्रलं भीमसेनस्य भुजयोरसमं परैः ॥

3.180.30

स तेजस्वी तथा तेन भुजगेन वशीकृतः ।
विम्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ॥

3.180.31

नागायुतसमप्राणः सिंहस्कन्धो महाभुजः ।
गृहीतो व्यजहात्सत्वं वरदानविमोहितः ॥

3.180.32

स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे । न चैनमशकद्वीरः कथञ्चित्प्रतिबाधितुम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc