भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.181

3.181.1

स भीमसेनस्तेजस्वी तदा सर्पवशं गतः ।
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥

3.181.2

उवाच च महासर्पं कामयाब्रूहि पन्नग ।
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ॥

3.181.3

पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥

3.181.4

सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा ।
समागताश्च बहुशो निहताश्च मया युधि ॥

3.181.5

राक्षसाश्च पिशाचाश्च पन्नगाश्च महाबलाः ।
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥

3.181.6

किन्नु विद्याबलं किन्नु वरदानमथो तव ।
उद्योगमपि कुर्वाणो वशगोस्मि कृतस्त्वया ॥

3.181.7

अनुत्यो विक्रमो नॄणामिति मे धीयते मतिः ।
यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥

3.181.8

इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् ।
भोगेन महता गृह्य समन्तात्पर्यवेष्टयत् ॥

3.181.9

निगृह्यैनं महाबाहुं ततः स भुजगस्तदा ।
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥

3.181.10

दिष्टस्त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज ।
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनां ॥

3.181.11

यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिन्दम ।
तदवश्यं त्वया मत्तः श्रोतव्यं शृणु यन्मम ॥

3.181.12

इमामवस्थां सम्प्राप्तो ह्यहं कोपान्महर्षिणा ।
शापस्यान्तं परिप्रेप्सुः सर्वस् कथयामि तत् ॥

3.181.13

नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।
तवैव पूर्वः पूर्वेषामायोर्वंशधरः सुतः ॥

3.181.14

सोहं शापादगस्त्यस्य ब्राह्मणानवमत्य च ।
इमामवस्थामापन्नः पश्य दैवमिदं मम ॥

3.181.15

त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् ।
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥

3.181.16

न हि मे मुच्यते कश्चित्कथञ्चित्प्रग्रहं गतः ।
गचजोवा महिषो वाऽपि षष्ठे काले नरोत्तम ॥

3.181.17

नासि केवलसर्पेण तिर्यग्योनिषु वर्तता ।
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥

3.181.18

पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् ।
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥

3.181.19

यस्त्वया वेष्टितो राजन्मोहमेति महाबलः ।
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥

3.181.20

ततोस्मि पतितो भूमौ न च मामजहात्स्मृतिः ।
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥

3.181.21

यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विभागवित् ।
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥

3.181.22

गृहीतस्य त्वया राजन्प्राणिनोपि बलीयसः ।
सत्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥

3.181.23

इतिचाप्यहमश्रौषं वचस्तेषां दयावताम् ।
मयि सञ्जातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥

3.181.24

सोहं परमदुष्कर्मा वसामि निरयेऽशुचौ ।
सर्पयोनिमिमां प्राप्यकालाकाङ्क्षी महाद्युते ॥

3.181.25

तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम् ।
न ते कुप्ये महासर्प नात्मने द्विजसत्तम ॥

3.181.26

यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः ।
आगमे यदि वाऽपाये न तत्र ग्लपयेन्मनः ॥

3.181.27

दैवं पुरुषकारेण को वञ्चयितुमर्हति ।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥

3.181.28

पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् ।
इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम् ॥

3.181.29

किन्तु नाद्यानुशोचामि तथाऽत्मानं विनाशितम् ।
तथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥

3.181.30

हिमवांश्च सुदुर्गोऽयं यक्षराक्षससन्कुलः ।
मां समुद्वीक्षमाणास्ते प्रयतिष्यन्ति विह्वलाः ॥

3.181.31

विनष्टमथ मां श्रुत्वा भविष्यन्ति निरुद्यमाः ।
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥

3.181.32

अथवा नार्जुनो धीमान्विषादमुपयास्यति ।
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥

3.181.33

समर्थः स महाबाहुरेकाङ्ना सुमहाबलः ।
देवराजमपि स्थानात्प्रच्यावयितुमञ्जसा ॥

3.181.34

किं पुनर्धृतराष्ट्रस् पुत्रं दुर्द्यूतदेविनम् ।
विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम् ॥

3.181.35

मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् ।
याऽस्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥

3.181.36

तस्याः कथं त्वनाथाया मद्विनाशाद्भुजङ्गम् ।
सफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥

3.181.37

नकुलः सहदेवश्च यमौ च गुरुवर्तिनौ ।
मद्वाहुबलसन्गुप्तौ नित्यं पुरुषमानिनौ ॥

3.181.38

भविष्यतो निरुत्साहौ भ्रष्टवीर्यपराक्रमौ ।
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥

3.181.39

एवंविधं बहु तदा विललाप वृकोदरः ।
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥

3.181.40

युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्तचेतनः ।
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥

3.181.41

दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता ।
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥

3.181.42

एकपक्षाक्षिचरणा वर्तिका घोरदर्शना ।
रक्तं वमन्ती ददृशे प्रत्यादित्यमभासुरा ॥

3.181.43

प्रववौ चानिलो रूक्षश्चण्डः सर्करकर्षणः ।
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥

3.181.44

पृष्ठतो वायसः कृष्णो याहियाहीति वाशति ।
मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुजस्तथा ॥

3.181.45

हृदयं चरणश्चापि वामोऽस्य परितप्यति ।
सव्यस्याक्ष्णओ विकारश्चाप्यनिष्टः समपद्यत ॥

3.181.46

धर्मराजोपि मेधावी शङ्कमानो महद्भयम् ।
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ॥

3.181.47

शंस तस्मै पाञ्चाली चिरयातं वृकोदरम् ।
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥

3.181.48

द्रौपद्या रक्षणं कार्यमित्युवाच धनञ्जयम् ।
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥

3.181.49

स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः ।
मृगयामास कौन्तेयो भीमसेनं महावने ॥

3.181.50

स प्राचीं दिशमास्थाय महतो गजयूथपान् ।
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥

3.181.51

ततो मृगसहस्राणि मृगेनद्राणां शतानि च ।
पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः ॥

3.181.52

धावतस्तस्य वीरस् मृगार्थं वातरंहसः ।
ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथिः ॥

3.181.53

स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे ।
[रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसन्कुले ॥

3.181.54

ईरिणे निर्जले देशे कण्टकिद्रुमसन्कुले । अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे.]
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc