भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.179

3.179.1

नगोत्तमं प्रस्रवणैरुपेतं दिशां गजैः किन्नरपक्षिभिश्च ।
सुखं निवासं जहतां हि तेषां न प्रीतिरासीद्भरतर्षभाणाम् ॥

3.179.2

ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान्बभूव ।
कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम् ॥

3.179.3

समुच्छ्रयान्पर्वतसन्निरोधान् गोष्ठान्हरीणां गिरिगह्वराणि ।
बहुप्रकाराणि समीक्ष्यवीराः स्थलानि निम्नानि च तत्र तत्र ॥

3.179.4

तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि ।
आलोकयन्तोऽभिययुः प्रतीता- स्ते धन्विनाः खङ्गधरा नराग्र्याः ॥

3.179.5

वनानि रम्याणि नदीः सरांसि गुहा गिरीणां गिरिगह्वराणि
एते निवासाः सततं बभूवु- र्निशामुखं प्राप्य नरर्षभाणाम् ॥

3.179.6

ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम् ।
आसेदुरत्यर्थमनोरमं ते तमाश्रमाग्र्यं वृषपर्वणस्तु ॥

3.179.7

समेत्य राज्ञा वृषपर्वणा ते प्रत्यर्चितास्तेन च वीतमोहाः ।
शशंसिरे विस्तरशः प्रवासं शिवं यथावद्वृषपर्वणस्ते ॥

3.179.8

सुखोषितास्तस्य त एकरात्रं पुण्याश्रमे देवमहर्षिजुष्टे ।
अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम् ॥

3.179.9

ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगताः समग्राः ।
कुबेरकान्तां नलिनीं विशोकाः सम्पश्यमानाः सुरसिद्धजुष्टाम् ॥

3.179.10

तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुताः सर्वनरप्रधानाः ।
ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतमला यथैव ॥

3.179.11

ततः क्रमेणोपययुर्नृवीरा यथागतेनैव पथा समग्राः ।
विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः ॥

3.179.12

चीनांस्तुषारान्दरदांश्च सर्वान् देशान्कुलिन्दस्य च भूरिरम्यान् ।
अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः ॥

3.179.13

श्रुत्वा च तान्पार्थिव पुत्रपौत्रा- न्प्राप्तान्सुबाहुर्विषये समग्रान् ।
प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥

3.179.14

समेत्य राज्ञा तु सुबाहुना ते सुतैर्विशोकप्रमुखैश्च सर्वे ।
सहेनद्रसेनैः परिचारकैश्च पौरोगवैर्ये च रमहानसस्थाः ॥

3.179.15

सुखोपितास्तत्रत एकरात्रं सूतान्समादाय रथांश्च सर्वान् ।
घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम् ॥

3.179.16

तस्मिन्गिरौ प्रस्रवणोपपन्न- हिमोत्तरीयारुणपाण्डुसानौ ।
विशाखयूपं समुपेत्य चक्रु- स्तदा निवासं पुरुषप्रवीराः ॥

3.179.17

वराहनानामृगपक्षिजुष्टं महावनं चैत्ररथप्रकाशम् ।
शिवेन यात्वा मृगयाप्रधानाः संवत्सरं तत्रवने विजह्रुः ॥

3.179.18

तत्राससादातिबलं भुजङ्गं क्षुधार्दितं मृत्युमिवोग्ररूपम् ।
वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा ॥

3.179.19

द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः ।
अमोक्षयद्यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम् ॥

3.179.20

ते द्वादशं वर्षमथोपयान्तं वने विहुर्तुं कुरवः प्रतीताः ।
तस्माद्वनाच्चैत्ररथप्रकाशा- च्छ्रिया ज्वलन्तस्तपसा च युक्ताः ॥

3.179.21

ततश्च यात्वा मरुधन्वपार्श्वं सदा धनुर्वेदरतिप्रधानाः ।
सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः ॥

3.179.22

समीक्ष् तान्द्वैतवने निविष्टा- न्निवासिनस्तत्रततोऽभिजग्मुः ।
तपोदमाचारसमाधियुक्ता- स्तृणोदपात्रावरणाश्मकुट्टाः ॥

3.179.23

प्लक्षाक्षरौहीतकवेतसाश्च तथा बदर्यः खदिराः शिरीषाः ।
बिल्वेङ्गुदाः पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः ॥

3.179.24

तां यक्षगन्धर्वमहर्षिकान्ता- मावासभूतामिव देवतानाम् ।
सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजह्रुर्नरदेवपुत्राः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc