भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.178

3.178.1

तस्मिन्कृतास्त्रे रथिनां प्रवीरे । प्रत्यागते भवनाद्वृत्रहन्तुः ।
अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेण धनञ्जयेन ॥
वैशम्पायन उवाच ।

3.178.2

वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः ।
तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्रुः ॥

3.178.3

वेश्मानि तान्यप्रतिमानि पश्यन् क्रीडाश्च नानाद्रुमसन्निबद्धाः ।
चचार धन्वी बहुधा नरेन्द्रः सोऽस्त्रेषु यत्तः सततं किरीटी ॥

3.178.4

अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः ।
न प्राणिनां ते स्पृहयन्ति राज- ञ्शिवश् कालः स बभूव तेषाम् ॥

3.178.5

समेत्य पार्थेन यथैकरात्र- मूषुः समास्तत्रतथा चतस्रः ।
पूर्वाश्च षट् ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु ॥

3.178.6

ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य ।
यमौ च वीरौ सुरराजकल्पा- वेकान्तमास्थाय हितं प्रियं च ॥

3.178.7

तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्त्वदनुप्रियं च ।
ततो न गच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम् ॥

3.178.8

एकादशं वर्षमिदं वसामः सुयोधनेनात्तसुखाः सुखार्हाः ।
तं वञ्चयित्वाऽधमबुद्धिशील- मज्ञातवासं सुखमाप्नुयाम ॥

3.178.9

तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरामो वनानि ।
समीपवासेन विलोभितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान् ॥

3.178.10

संवत्सरं तत्र विहृत्य गूढं नराधमं तं सुखमुद्धरेम ।
निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय ॥

3.178.11

सुयोधनायानुचरैर्वृताय ततो महीं प्राप्नुहि धर्मराज ।
स्वर्गोपमं देशमिमं चरद्भिः शक्यो विहन्तुं नरदेव शोकः ॥

3.178.12

कीर्तिस्तु ते भारत पुण्यगन्धा नश्येद्धि लोकेषु चराचरेषु ।
तत्प्राप्य राज्यन्कुरुपुङ्गवानां शक्यं महत्प्राप्तुमथ क्रियाश्च ॥

3.178.13

इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात् ।
कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहे च ॥

3.178.14

तेजस्तवोग्रं न सहेत राजन् समेत्य साक्षादपि वज्रपाणिः ।
न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज ॥

3.178.15

तवार्थसिद्ध्यर्थमपि प्रवृत्तौ सुपर्णकेतुश्च शिनेश्च नप्ता ।
यथैव कृष्णोऽप्रतिमो बलेन तथैव राजन्स शिनिप्रवीरः ॥

3.178.16

तवार्थसिद्ध्यर्थमभिप्रपन्नो यथैव कृष्णः सह यादवैस्तैः ।
तथैव चेमौ नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे ॥

3.178.17

त्वदर्थयोगप्रभवप्रधानाः शमं करिष्याम परान्समेत्य ॥
वैशम्पायन उवाच

3.178.18

ततस्तदाज्ञाय मतं महात्मा तेषां च धर्मस्य सुतो वरिष्ठः ।
प्रदक्षिणं स्थानमुपेत्य राजा पर्याक्रमद्वैश्रवणस्य राज्ञः ॥

3.178.19

आमन्त्र्य वेश्मानि नदीः सरांसि सर्वाणि रक्षांसि च धर्मराजः ।
यथागतं मार्गमवेक्षमाणः पुनर्गिरिं चैव निरीक्षमाणः । [ततो महात्मा स विशुद्धबुद्धिः सम्प्रार्थयामास नगेन्द्रवर्यम् ॥ ]

3.178.20

समाप्तकर्मा सहितः सुहृद्भि- र्जित्वा सपत्नान्प्रतिलभ्य राज्यम् ।
शैलेन्द्र भूयस्तपसे जितात्मा द्रष्टा तवास्मीति मतिं चकार ॥

3.178.21

वृतश्च सर्वैरनुजैर्द्विजैश्च तेनैव मार्गेण पुनर्निवृत्तः ।
उवाह चैनान्गणशस्तथैव घटोत्कचः पर्वतनिर्झरेषु ॥

3.178.22

तान्प्रस्थितान्प्रीतमना महर्षिः पितेव पुत्राननुशिष्य सर्वान् ।
स लोमशो दिवमेवोर्जितश्री- र्जगाम तेषां विजयं तदोक्त्वा ॥

3.178.23

तेनार्ष्टिषेणेन तथानुशिष्टा- स्तीर्तानि रम्याणि तपोवनानि ।
महान्ति चान्यानि सरांसि पार्थाः कसम्पश्यमानाः प्रययुर्नराग्र्याः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc