महाभारत · अध्याय 3.177
तस्यां रात्र्यां व्यतीतायां धर्मराजो युधिष्ठिरः ।
उत्थायावश्यकार्याणि कृतवान्भ्रातृभिः सह ॥
ततः सञ्चोदयामास सोऽर्जुनं मातृनन्दनम् ।
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया ॥
ततो धनञ्जयो राजन्देवैर्दत्तानि पाण्डवः ।
अस्त्राणि तानि दिव्यानि दर्शयामास भारत ॥
यथान्यायं महातेजाः शौचं परममास्थितः ।
नमस्कृत्य त्रिनेत्राय वासवाय च पाण्डवः ॥
गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत् ।
पार्थिवं रथमास्थाय शोभमानो धनञ्जयः ॥
दिव्येन संवृतस्तेन कवचेन सुवर्चसा ।
धनुरादाय गाण्डीवं देवदत्तं स वारिजम् ॥
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः ।
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ॥
अथ प्रयोक्ष्यमाणेषु दिव्येष्वस्त्रेषु तेषु वै ।
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ॥
क्षुभिताः सरितश्चैव तथैव च महोदधिः ।
शैलाश्चापि व्यदीर्यन्त न ववौ च समीरणः ॥
न बभासे सहस्रांशुर्न जज्वाल च पावकः ।
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन ॥
अन्तर्भूमिगता ये च प्राणिनो जनमेजय ।
पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् ॥
वेपमानाः प्राञ्जलयस्ते सर्वे विकृताननाः ।
दह्यमानास्तदाऽस्त्रैस्ते याचन्ति स्म धनञ्जयम् ॥
ततो ब्रह्मर्षयश्चैव सिद्धा ये च महर्षयः ।
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ॥
देवर्षयश्च प्रवरास्तथैव च दिवौकसः । यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः ।
खेचराणि च भूतानि सर्वाण्येवावतस्थिरे ॥
ततः पितामहश्चैव लोकपालाश्च सर्वशः ।
भगवांश्च महादेवः सगणोऽभ्याययौ तदा ॥
ततो वायुर्महाराज दिव्यैर्माल्यैः समन्वितः ।
अभितः पाण्डवञ्चित्रैरवचक्रे समन्ततः ॥
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः ।
ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः ॥
तस्मिंश्च तादृशे काले नारदश्चोदितः सुरैः ।
आगम्याह वचः पार्थं श्रवणीयमिदं नृप ॥
अर्जुनार्जुन मा युङ्क्ष दिव्यान्यस्त्राणि भारत ।
नैतानि निरधिष्ठाने प्रयुज्यन्ते कथञ्चन ॥
अधिष्ठाने न वाऽनार्तः प्रयुञ्जीत कदाचन ।
प्रयोगेषु महान्दोषो ह्यस्त्राणां कुरुनन्दन ॥
एतानि रक्ष्यमाणानि धनञ्जय यथागमम् ।
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः ॥
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव ।
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् ॥
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे ।
योज्यमानानि पार्थे नद्विषतामवमर्दने ॥
वैशम्पायन उवाच ।
निवार्याथ ततः पार्थं सर्वे देवा यथागतम् ।
जग्मुरन्ये च ये तत्र रसमाजग्मुर्नरर्षभ ॥
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः । तस्मिननेव वने हृष्टास्त ऊषुः सह कृष्णया ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0