भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.161

3.161.1

आर्ष्टिषेणाश्रमे तस्मिन्मम पूर्वपितामहाः ।
पाण्डोः पुत्रा महात्मान सर्वे दिव्यपराक्रमाः ॥

3.161.2

कियन्तं कालमवसन्पर्वते गन्धमादने ।
किञ्च चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः ॥

3.161.3

कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् ।
वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ॥

3.161.4

विस्तरेण च मे शंस भीमसेनपराक्रमम् ।
यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ॥

3.161.5

न खल्वासीत्पुनर्युद्धं तस् यक्षैर्द्विजोत्तम ।
धनदाध्युषिते नित्यं वसतस्तत्र पर्वते ॥

3.161.6

कच्चित्समागमस्तेषामासीद्वैश्रवणस्य च ।
तत्र ह्यायाति धनद आर्ष्टिषेणो यथाऽब्रवीत् ॥

3.161.7

एतदिच्छाम्यहं श्रोतुं रविस्तरेण तपोधन ।
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ॥
वैशम्पायन उवाच ।

3.161.8

एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः ।
शासनं सततं चक्रुस्तथैव भरतर्षभाः ॥

3.161.9

भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ।
शुद्धबाणहतानां च मृगाणां पिशितान्यपि ॥

3.161.10

मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च ।
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥

3.161.11

तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् ।
शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत ॥

3.161.12

कृत्यकाल उपस्तास्य इति चोक्त्वा घटोत्कचः ।
राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो ॥

3.161.13

आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् ।
अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ॥

3.161.14

तैस्तत्रविहरद्भिश्च रममाणैश्च पाण्डवैः ।
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥

3.161.15

आजग्मुः पाण्डवान्द्रष्टुं शुद्धात्मानो यतव्रताः ।
ते तैः सह कथां चक्रुर्द्रिव्यां भरतसत्तमाः ॥

3.161.16

ततः कतिपयाहस्सु महाह्रदनिवासिनम् ।
ऋद्धिमन्तं महानागं सुपर्णः सहसाऽहरत् ॥

3.161.17

प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः ।
ददृशुः सर्वभूतानि पाणअडवाश्च तदद्भुतम् ॥

3.161.18

ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः ।
अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ॥

3.161.19

तत्रपुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः ।
ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी ॥

3.161.20

भीमसेनं ततः कृष्णा काले वचनमब्रवीत् ।
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥

3.161.21

सुपर्णानिलवेगेन श्वसनेन महाबलात् ।
पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ॥

3.161.22

दिव्यावर्णानि दिव्यानि दिव्यगन्धवहानि च ।
मदयन्तीव गन्धेन मनो मे भरतर्षभ ॥

3.161.23

येषां तु दर्शनात्स्पर्शान्सौरभ्याच्च तथैव च ।
नश्यतीव मनोदुःखं ममेदं शत्रुतापन ॥

3.161.24

ईदृशैः कुसुमैर्दिव्यैर्दिव्यगन्धवहैः शुभैः ।
देवतान्यर्चयित्वाऽहमिच्छेयं सङ्गमं त्वया ॥

3.161.25

इदं तु पुरुषव्याघ्र विशेषेणाम्बुजं शुभम् ।
गन्धसंस्थानसम्पन्नं मम मानसवर्धनम् ॥

3.161.26

प्रत्यक्षं सर्वलोकस् नह्यदृश्यत मां प्रति ॥

3.161.27

वासुदेवसहायेन वासुदेवप्रियेण च ।
खाण्डवे सत्यसन्धेन भ्रात्रा तव महात्मना ॥

3.161.28

गन्धर्वोरगरक्षांसि वासवश्च पराजितः ।
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवं ॥

3.161.29

तवापि सुमहत्तेजो महद्बाहुबलं च ते ।
अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम ॥

3.161.30

त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः ।
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥

3.161.31

ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् ।
व्यपेतभयसम्मोहाः पश्यन्तु सुहृदस्तव ॥

3.161.32

एवं प्रणिहितं भीम चिरात्प्रभृतिमे मनः ।
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ॥

3.161.33

इच्छामि च नरव्याघ्र पुष्पं प्रत्यक्षमीदृशम् ।
आनीयमानं क्षिप्रं वै त्वया भरतसत्तम ॥

3.161.34

ततः क्षिप्तमिवात्मानं द्रौपद्या स परन्तपः ।
नामृष्यत महाबाहुः प्रहारमिवसद्गजः ॥

3.161.35

सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः ।
मनस्वी बलवान्दृष्टो मानी भूरश्च पाण्डवः ॥

3.161.36

लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः ।
सिंहदंष्ट्रो वृषस्कन्धः सालपोत इवोद्गतः ॥

3.161.37

महात्मा चारुसर्वाङ्ग कम्बुग्रीवो महाहनुः ।
रुक्मपृष्ठं धनुः खङ्गं तूणांश्चापि परामृशन् ॥

3.161.38

सकेसरीव चोत्सिक्तः प्रभिन्न इव वारणः ।
व्यपेतभयसम्मोहः शैलमभ्यपतद्बली ॥

3.161.39

तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् ।
ददृशुः सर्वभूतानि पार्थं खङ्गधनुर्धरम् ॥

3.161.40

द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः ।
व्यपेतभयसम्मोहः शैलराजं समाविशत् ॥

3.161.41

न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः ।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥

3.161.42

तदेकायनमासाद्य विषमं भीमदर्शनम् ।
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥

3.161.43

स किन्नरमहानागमुनिगन्धर्वराक्षसान् ।
हर्षयन्पर्वतस्याग्रमारुरोह महाबलः ॥

3.161.44

ततो वैश्रवणावासं ददर्श भरतर्षभः ।
काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलन्कृतम् ॥

3.161.45

[प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः ।
सर्वरत्नद्युतिमता सर्वोद्यानवता तथा ॥

3.161.46

शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना ।
द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना ॥

3.161.47

विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः ।
वायुना धूयमानाभिः पताकाभिरलन्कृतम् ॥

3.161.48

धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना । पश्यमानः सखेदेन द्रविणाधिपतेः पुरम् ॥ ]

3.161.49

मोदयनसर्वभूतानि गन्धमादनसम्भवः ।
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥

3.161.50

चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः ।
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः ॥

3.161.51

रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम् ।
राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः ॥

3.161.52

गदाखङ्गधनुष्पाणिः समभित्यक्तजीवितः ।
भीमसेनो महाबाहुस्तस्थौ गिरिवाचलः ॥

3.161.53

ततः शङ्खमुपाध्माय द्विषतां रोमहर्षणम् ।
ज्याघोषं तलशब्दं च कृत्वा भूतान्यमोहयत् ॥

3.161.54

ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः ।
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥

3.161.55

गदापरिघनिस्त्रिंशशूलशक्तिपरश्वथाः ।
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥

3.161.56

ततः प्रववृते युद्धं तेषां तस्य च भारत ॥

3.161.57

तैः प्रयुक्तान्महामायैः शूलशक्तिपरश्वथान् ।
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ॥

3.161.58

अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम् ।
शरैर्विव्याध गात्राणै राक्षसानां महाबलः ॥

3.161.59

शोणितस्य ततः पेतुर्घनानामिव भारत । गात्रेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ।
स लोहितमहावष्टिमभ्यवर्षन्महाबलः ॥

3.161.60

गदापरिघपाणीनां रक्षसां कायसम्भवा ।
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥

3.161.61

भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम् ।
विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च ॥

3.161.62

प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् ।
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥

3.161.63

स रश्मिभिरिवादित्यः शरैररिनिपातिभिः ।
सर्वानार्च्छन्महाबाहुर्बलवान्सत्यविक्रमः ॥

3.161.64

अभितर्जयमानाश्च रुवन्तश् महारवान् ।
सन्नाहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥

3.161.65

ते हि विक्षतसर्वाङ्गा भीमसेनभयार्दिताः ।
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥

3.161.66

उत्सृज्य ते गदाशूलानसिशक्तिपरश्वथान् ।
दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ॥

3.161.67

तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः ।
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥

3.161.68

दर्शयन्स प्रतीकारं पौरुषं च महाबलः ।
स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ॥

3.161.69

एकेन बहवः सङ्ख्ये मानुषेण पराजिताः ।
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥

3.161.70

एवमाभाष् तान्सर्वानभ्यवर्तत राक्षसः ।
शक्तिशूलगदापाणिरभ्यधावत्स पाण्डवम् ॥

3.161.71

तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ।
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत् ॥

3.161.72

मणिमानपि सन्क्रुद्धः प्रगृह्य महतीं गदाम् ।
प्राहिणोद्भीमसेनाय परिगृह्य महाबलः ॥

3.161.73

विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् ।
शरैर्बहुभिरानर्छद्भीमसेनः शिलाशितैः ॥

3.161.74

प्रत्यहन्यन्त ते सर्वेगदामासाद्य सायकाः ।
न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥

3.161.75

गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् ।
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥

3.161.76

ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् ।
तस्मिन्नेवान्तरे धीमान्प्रचिक्षेप स राक्षसः ॥

3.161.77

सा भुजं भीमनिर्ह्रादा भित्त्वाभीमस् दक्षिणम् ।
साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥

3.161.78

सोऽतिविद्धो महेष्वासः शक्त्याऽमितपराक्रमः ।
गदां जग्राह कौन्तेयो गदायुद्धविशारदः ॥

3.161.79

रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम् । प्रगृह्याथ नदन्भीमः शैक्यां सर्वायसीं गदाम् ।
तरसा चाभिदुद्राव मणिमन्तं महाबलम् ॥

3.161.180

दीप्यमानं महाशूलं प्रगृह्य मणिमानपि ।
प्राहिणोद्भीमसेनाय वेगेन महता नदन् ॥

3.161.81

भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविभागवित् ।
अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ॥

3.161.82

सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम् ।
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ॥

3.161.83

सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरहसा ।
हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ॥

3.161.84

तं राक्षसं बीमबलं भीमसेनबलाहतम् ।
ददृशुः सर्वभूतानि सिंहेनेव गवाम्पतिम् ॥

3.161.85

तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः । भीममार्तस्वरं कृत्वा जग्मुः प्राचजीं दिशं प्रति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc