भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.162

3.162.1

श्रुत्वा बहुविधैः शब्दैर्नाद्यमानां गिरेर्गुहाम् ।
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि ॥

3.162.2

धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा ।
भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् ॥

3.162.3

द्रौपदीमार्ष्टिषेणाय सम्प्रधार्य महारथाः ।
सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ॥

3.162.4

ततः सम्प्राप्य शैलाग्रं वीक्षमाणा महारथाः ।
ददृशुस्ते महेष्वासा भीमसेनमरिन्दमम् ॥

3.162.5

स्फुरतश्च महाकायान्गतसत्वांश्च राक्षसान् ।
महाबलान्महासत्वान्भीमसेनेव पातितान् ॥

3.162.6

शुशुरतश्च महाकायान्गतसत्वांश्च राक्षसान् ।
महाबलान्महासत्वान्भीमसेनेन पातितान् ॥

3.162.7

ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् ।
तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ॥

3.162.8

तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत ।
लोकपालैर्महाभागैर्दिवं देववरैरिव ॥

3.162.9

कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् ।
भ्राता भ्रातरमासीनमथोवाच युधिष्ठिरः ॥

3.162.10

साहसाद्यदिवा मोहाद्बीम पापमिदं कृतम् ।
नैतत्ते सदृशं वीर मुनेरिव मृषा वधाः ॥

3.162.11

राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः ।
त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ॥

3.162.12

अर्थधर्मावनादृत्य यः पापे कुरुते मनः ।
कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ॥

3.162.13

साहसंवत भद्रं ते देवानामपि चाप्रियम् ।
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥
वैशम्पायन उवाच ।

3.162.14

एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् ।
भीमसेनं महाबाहुमप्रधृष्यपराक्रमम् ॥

3.162.15

अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
विराम महातेजास्तमेवार्थं विचिन्तयन् ॥

3.162.16

ततस्ते हतशिष्टा ये भीमसेनेन राक्षसाः ।
सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ॥

3.162.17

ते जवेन महावेगाः प्राप्य वैश्रवणालयम् ।
भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ॥

3.162.18

न्यस्तशस्त्रायुधाः क्लान्ताः शोणिताक्तपरिच्छदाः ।
प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ॥

3.162.19

गदापरिघनिस्त्रिंसतोमरप्रासयोधिनः ।
राक्षसा निहताः सर्वे तव देवपुरःसराः ॥

3.162.20

प्रमृद्यतरसा शैलं मानुषेण धनेश्वर ।
एकेन निहताः सङ्ख्ये गताः क्रोधवशा गणाः ॥

3.162.21

प्रवरा राक्षसेन्द्राणां यक्षाणां च नराधिप ।
शेरते निहता देव गतसत्वाः परासवः ॥

3.162.22

भग्नः शैलो वयं भग्ना मणिमांस्ते सखा हतः ।
मानुषेणं कृतं कर्म विधत्स्व यदनन्तरम् ॥

3.162.23

स तच्छ्रुत्वा तु सन्क्रुद्धः सर्वयक्षगणाधिपः ।
कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ॥

3.162.24

द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः ।
चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ॥

3.162.25

अथाभ्रघनसन्काशं गिरिकूटमिवोच्छ्रितम् ।
रथं संयोजयामासुर्गर्न्धैवर्हेममालिभिः ॥

3.162.26

तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः । तेजोबलगुणोपेता नानारत्नविभूषिताः ।
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः ॥

3.162.27

ततस्ते तु महायक्षाः क्रुद्धं दृष्ट्वा धनेश्वरम् ।
हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ॥

3.162.28

स तमास्थाय भगवान्राजराजो महारथम् ।
प्रययौ देवगनधर्वैः स्तूयमानो महाद्युतिः ॥

3.162.29

तं प्रयान्तं महात्मानं सर्वे यक्षा धनाधिपम् ।
अनुजग्मुर्महात्मानं धनदं घोरदर्शनाः ॥

3.162.30

रक्ताक्षा हेमसन्काशा महाकाया महाबलाः ।
सायुधा बद्धनिस्त्रिंशा यक्षा बहुशतायुधाः ॥

3.162.31

ते जवेन महावेगाः प्लवमाना विहायसा ।
गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम् ॥

3.162.32

तत्केसरिमहाजालं धनाधिपतिपालितम् ।
रम्यं चैव गिरेः शृङ्गमासेदुर्यत्रपाण्डवाः ॥

3.162.33

कुबेरं च महात्मानं यक्षरक्षोगणावृतम् ।
ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ॥

3.162.34

कुबेरस्तु महासत्वान्पाण्डोः पुत्रान्महारथान् ।
आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ॥

3.162.35

सर्वे चेमे नरव्याघ्राः पुरन्दरसमौजसः । देवकार्यं करिष्यन्ति हृदयेन तुतोष ह ॥

3.162.36

ते पक्षिण इवापेतुर्गिरिशृङ्गं महाजवाः ।
तस्थुस्तेषां सकाशे वै धनेश्वरपुरःसराः ॥

3.162.37

ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत ।
समीक्ष्ययक्षगन्धर्वा निर्विकारमवस्थिताः ॥

3.162.38

पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् ।
नकुलः सहदेवश् धर्मपुत्रश्च धर्मवित् ॥

3.162.39

अपराद्धमिवात्मानं मन्यमाना महारथाः ।
तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् ॥

3.162.40

शय्यासनयुतं श्रीमत्पुष्पकं विश्वकर्मणा ।
विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः ॥

3.162.41

तमासीनं महाकायाः शङ्कुकर्णा महाजवाः ।
उपोपविविशुर्यक्षा राक्षसाश् सहस्रशः ॥

3.162.42

शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः ।
परिवार्योपतिष्ठन्ति यथा देवाः शतक्रतुम् ॥

3.162.43

काञ्जनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् ।
बाणखङ्गधनुष्पाणिरुदैक्षत धनाधिपम् ॥

3.162.44

न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः ।
आसीत्तस्यामवस्तायां कुबेरमपि पश्यतः ॥

3.162.45

आददानं शितान्बाणान्योद्धुकाममवस्थितम् ।
दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ॥

3.162.46

विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् ।
निर्भयश्चापिशैलाग्रे वस त्वं सह बन्धुभिः ॥

3.162.47

न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव ।
कालेनैते हताः पूर्वं निमित्तमनुजस्तव ॥

3.162.48

व्रीडा चात्रन कर्तव्या साहसं यदिदं कृतम् ।
दृष्टश्चापि सुरैः पूर्वंविनाशो यक्षरक्षसाम् ॥

3.162.49

न भीमसेने कोपो मे प्रीतोस्मि भरतर्षभ ।
कर्मणा भीमसेनस्य मम तुष्टिरभूत्पुरा ॥
वैशम्पायन उवाच ।

3.162.50

स एवमुक्त्वा राजानं भीमसेनमभाषत ।
नैतन्मनसि मे तात वर्तते कुरुसत्तम ॥

3.162.51

यदिदं साहसं भीम कृष्णार्थे कृतवानसि ।
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् ॥

3.162.52

स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि ।
शापादद्य विनिर्मुक्तो घोरादस्माद्वृकोदर ॥

3.162.53

अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा ।
शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिर्ध्रुवम् ॥

3.162.54

दृष्टो हि मम सन्क्लेशः पुरा पाण्डवनन्दन ।
न तवात्रापराधोस्ति कथञ्चिदपि पाण्डव ॥
युधिष्ठिर उवाच ।

3.162.55

कथं शप्तोसि भगवन्नगस्त्येन महात्मना ।
श्रोतुमिच्छाम्यहं देव यथैतच्छापकारणम् ॥

3.162.56

इदं चाश्चर्यभूतं मे यत्क्रोधात्तस् धीमतः ।
तदैव त्वं न निर्दग्धः सबलः सपदानुगः ॥
धनेश्वर उवाच ।

3.162.57

देवतानामभून्मन्त्रः कुशावत्यां नरेश्वर ॥

3.162.58

वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः ।
यक्षाणआं घोररूपाणां विविधायुधधारिणाम् ॥

3.162.59

अध्वन्यहमथापश्यमगस्त्यमृपिसत्तमम् । उग्रं तपस्तप्यभानं यमुनातीरमाश्रितम् ।
नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ॥

3.162.60

तमूर्द्वबाहुं दृष्ट्वैव सूर्यस्याभिमुखे स्थितम् ।
तेजोराशिं दीप्यमानं हुताशनमिवैधितम् ॥

3.162.61

राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा ।
मौर्क्यादज्ञानभावाच्च दर्पान्मोहाच्च पार्थिव ॥

3.162.62

न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि ।
ततः क्रुद्धः स भगवानुवाचेदं तपोधनः ॥

3.162.63

मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव ।
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर ॥

3.162.64

त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्नुहि दुर्भते ।
तमेव मानुषं दृष्ट्वाकिल्विषाद्विप्रमोक्ष्यसे ॥

3.162.65

सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् ।
न शापं प्राप्यते घोरं गच्छ तेऽज्ञां करिष्यति ॥

3.162.66

एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् । स भीमेन महाराज भ्रात्रा तव विमोक्षितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc