भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.160

3.160.1

युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् ।
अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ॥

3.160.2

ततः कृष्णा च भीमश्च यमौ च सुतपस्विनौ ।
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ॥

3.160.3

तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः ।
यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ॥

3.160.4

अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा ।
पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ॥

3.160.5

कुरूणामृपभं प्राज्ञं पूजयित्वा महातपाः ।
सह भ्रातृभिरसीनं पर्यपृच्छदनामयम् ॥

3.160.6

नानृते कुरुपे भावं कच्चिद्धर्मे प्रवर्तसे ।
मातापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ॥

3.160.7

कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः ।
कच्चिन्न कुरुपे भावं पार्थ पापेषु कर्मसु ॥

3.160.8

सुकृतम्प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् ।
यथान्यायं कुरुश्रष्ठ जानासि न विकत्थसे ॥

3.160.9

यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः ।
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ॥

3.160.10

कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते ।
दानधर्मतपःशौचैरार्जवेन तितिक्षया ॥

3.160.11

पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे ।
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव ॥

3.160.12

स्वेस्वे किल कुले जाते पुत्रे नप्तरि वा पुनः ।
पितरः पितृलोकस्थाः शोचन्ति च रमन्ति च ॥

3.160.13

किं तस्य दुष्कृतेऽस्माभिः सम्प्राप्तव्यं भविष्यति ।
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनं ॥

3.160.14

पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः ।
यस्यैतेपूजिताः पार्थ तस् लोकावुभौ जितौ ॥
[युधिष्ठिर उवाच ।

3.160.15

भगवन्नार्य माऽहैतद्यथावद्धर्मनिश्चयम् ।
यथाशक्ति यथान्यायं क्रियते विधिवन्मया ॥
आर्ष्टिषेण उवाच.]

3.160.16

अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा ।
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु ॥

3.160.17

कामिनः सह कान्ताभिः परस्परमनुव्रताः ।
दृश्यन्ते शैलशृङ्गस्था यथा किम्पुरुषा नृप ॥

3.160.18

अरजांसि च वासांसि वसानाः कौशिकानि च ।
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः ॥

3.160.19

विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः ।
महोरगगणाश्चैव सुपर्णाश्चारणादयः ॥

3.160.20

अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु ।
भेरीपणवशङ्खानां मृदङ्गानां च निःखनः ॥

3.160.21

इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः ।
न कार्या वः कथञ्चित्स्यात्तत्राभिगमने मतिः ॥

3.160.22

न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः ।
विहारस्तत्र देवानाममानुषगतिस्तु सा ॥

3.160.23

ईषच्चपलकर्माणं मनुष्यमिह भारत ।
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः ॥

3.160.24

अस्यातिक्रम्य शिखरं कैलासस्य युधिष्ठिर ।
गतिः परमसिद्धानां देवर्षीणां प्रकाशते ॥

3.160.25

चापलाद्धि न गन्तव्यं पार्त यानैस्ततः परम् ।
अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ॥

3.160.26

अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः ।
इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते ॥

3.160.27

शिखरे तं समासीनमधिपं यक्षरक्षसाम् ।
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ॥

3.160.28

देवदानवसिद्धानां तथा वैश्रवणस्य च ।
गिरेः शिखरमुद्यानमिदं भरतसत्तम ॥

3.160.29

उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु ।
गीतसामस्वनस्तात श्रूयते गन्धमादने ॥

3.160.30

एतदेवंविधं चित्रमिह तात युधिष्ठिर ।
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु ॥

3.160.31

भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ।
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनात् ॥

3.160.32

न तात चपलैर्भाव्यमिह प्राप्तैः कथञ्चन ।
चपलः सर्वभूतानां द्वेष्यो भवति मानवः ॥

3.160.33

उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च । ततः शस्त्रजितां श्रेष्ठ पृथिवीं पालयिष्यसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc