भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.155

3.155.1

पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥

3.155.2

अपश्यत्तत्रपाञ्चाली सौगन्धिकमनुत्तमम् ।
अनिलोढमितो नूनं सा बहूनि परीप्सति ॥

3.155.3

तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् ।
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥
राक्षसा ऊचुः ।

3.155.4

आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ ।
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा ॥

3.155.5

देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर ।
आमन्त्र्य यक्षप्रवरं पिबन्ति च हरन्ति च ॥

3.155.6

गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ।
यक्षाधिपस्यानुमते कुबेरस् महात्मनः ॥

3.155.7

अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् ।
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येन्न संशयः ॥

3.155.8

तमनादृत्य पद्मानि जिहीर्षसि बलादिह ।
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥

3.155.9

[आमन्त्र्य यक्षराजं वै ततः पिव हरस्व च ।
नातोऽन्यथा त्वया शक्यं किञ्चित्पुष्करमीक्षितुं ॥
भीमसेन उवाच ।

3.155.10

राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके ।
दृष्ट्वाऽपिच महाराजं नाहं याचितुमुत्सहे ॥

3.155.11

न हि याचन्ति राजान एष धर्मः सनातनः ।
न चाहं हातुमिच्छामि क्षात्रधर्मं कथञ्चन ॥

3.155.12

इयं च नलिनी रम्या जाता पर्वतनिर्झरे ।
नेयं भवनमासाद्यकुबेरस्य महात्मनः ॥

3.155.13

तुल्या हि सर्वभूतानामियं वैश्रवणस्य च ।
एवं गतेषु द्रव्येषु कः कं याचितुमर्हति ॥

3.155.14

इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत ।
तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः ॥

3.155.15

ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ।
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥

3.155.16

कदर्थीकृत्यतु स तान्राक्षसान्भीमविक्रमः ।
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥

3.155.17

गृह्णीत बध्नीत विकर्ततेमं पचाम खादाम च भीमसेनम् ।
क्रुद्धा ब्रुवन्तोऽभिययुर्द्रतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥

3.155.18

प्रगृह्यतानभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥
ते तं तदा तोमरपट्टसाद्यै- र्व्याविद्धशस्त्रैः सहसा निपेतुः ।

3.155.19

जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवव्रुरुग्राः ।
जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवब्रुरुग्राः ॥

3.155.20

वातेन कुन्त्यां बलवान्सुजातः शूरस्तरस्वी द्विषतां निहन्ता ।
सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥

3.155.21

तेषां स मार्गान्विविधान्महात्मा निहत्य शस्त्राणि च शास्त्रवाणाम् ।
यथा प्रवीरान्निजघान भीमः परश्शतान्पुष्करिणीसमीपे ॥

3.155.22

ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलम्बाहुबलं तथैव ।
अशक्नुवन्तः सहितं समन्ता- द्द्रुतं प्रवीरा सहसा निवृत्ताः ॥

3.155.23

विदीर्यमाणास्तत एव तूर्ण- माकाशमास्थाय विमूढसञ्ज्ञाः ।
कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥

3.155.24

स शक्रवद्दानवदैत्यसङ्घान् विक्रम्य जित्वा च रणेऽरिसङ्घान् ।
विगाह्यतां पुष्करीणीं जितारिः कामं स जग्राह ततोऽम्बुजानि ॥

3.155.25

ततः स पीत्वाऽमृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः ।
उत्पाट्य जग्राह ततोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति ॥

3.155.26

ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुन्नाः ।
भीमस्य वीर्यं च बलं च संख्ये यथावदाचख्युरतीव दीनाः ॥

3.155.27

तेषां वचस्तत्तु निशाम्य देवः प्रहस्य रक्षांसि ततोऽभ्युवाच ।
गृह्णातु भीमो जलजानि कामं कृष्णानिमित्तं विदितं ममैतत् ॥

3.155.28

ततोऽभ्यनुज्ञाय धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः ।
भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc