भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.154

3.154.1

स गत्वानलिनीं रम्यां राक्षसैरभिरक्षिताम् ।
कैलासशिरे रम्ये ददर्श शुभकानने ॥

3.154.2

कुबेरभुवनाभ्याशे जातां पर्वतनिर्झरैः ।
सुरम्यां विपुलच्छायां नानाद्रुमलताकुलाम् ॥

3.154.3

हरिताम्बुजसञ्छन्नां दिव्यां कनकपुष्कराम् ।
नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम् ॥

3.154.4

अतीव रम्यां सुजलां जातां पर्वतसानुषु ।
विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् ॥

3.154.5

तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् ।
ददर्शविमलं तोयं पिबंश्च बहु पाण्डवः ॥

3.154.6

तां तु कपुष्करिणीं रम्यां दिव्यसौगन्धिकावृताम् ।
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ॥

3.154.7

वैडूर्यवरनालैश्च बहुचित्रैर्मनोरमैः ।
हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ॥

3.154.8

आक्रीडं राजराजस् कुबेरस्य महात्मनः ।
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ॥

3.154.9

सेवितामृषिभिर्दिव्यैर्यक्षैः किम्पुरुषैस्तथा ।
राक्षसैः किन्नरैश्चापि गुप्तां वैश्रवणेन च ॥

3.154.10

तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाहलः ।
बभूव परमप्रीतो दिव्यम्प्रेक्ष्य सरो महत् ॥

3.154.11

तच्च क्रोवशा नाम राक्षसा राजशासनात् ।
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ॥

3.154.12

ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् ।
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥

3.154.13

सायुधं बद्धनिस्त्रिंशमशङ्कितमरिन्दमम् ।
पुष्करप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ॥

3.154.14

अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः ।
यच्चिकीर्षुरिह प्राप्तस्तत्सम्प्रष्टुमिहार्हथ ॥

3.154.15

ततः सर्वे महाबाहुं समासाद्यवृकोदरम् ।
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ॥

3.154.16

मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे । यदर्थमाभिसम्प्राप्तस्तदाचक्ष्यमहामते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc