भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.156

3.156.1

ततस्तानि महार्हाणि दिव्यानि भरतर्षभ ।
बहूनि बहुरूपाणि विरजांसि समाददे ॥

3.156.2

ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः ।
प्रादुरासीद्वरस्पर्शः सन्ग्राममभिचोदयन् ॥

3.156.3

पपात महती चोल्का सनिर्घाता महाभया ।
निष्प्रभश्चाभवत्सूर्यंश्छन्नरश्मिस्तमोवृतः ॥

3.156.4

निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते ।
चचाल पृथिवी चापि पांसुवर्षं पपात च ॥

3.156.5

सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः । तमोवृतमभूत्सर्वं न प्राज्ञायत किञ्चन ।

3.156.6

[अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे ॥ ] तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः ।
उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ॥

3.156.7

सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः ।
यथा रूपाणि पश्यामि सुव्यक्तो नः पराक्रमः ॥

3.156.8

एवमुक्त्वा ततो राजा वीक्षाञ्चक्रे समन्ततः ।
अपश्यमानो भीमं तु धर्मपुत्रो युधिष्ठिरः ॥

3.156.9

ततः कृष्णां यमौ चापि समीपस्थानरिन्दमः ।
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ॥

3.156.10

कच्चिन्न भीमः पाञ्चालि किञ्च कृत्यं चिकीर्षति ।
कृतवानपि वा वीर साहसं साहसप्रियः ॥

3.156.11

इमे ह्यकस्मादुत्पाता महासमरशंसिनः ।
दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ॥

3.156.12

तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी ।
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ॥

3.156.13

यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना ।
तन्मया भीमसेनस्य प्रीतयाऽद्योपपादितम् ॥

3.156.14

अपि चोक्तो मया वीरो यदिपश्येर्बहून्यपि ।
तानि सर्वाणअयुपादाय शीघ्रमागम्यतामिति ॥

3.156.15

स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः ।
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ॥

3.156.16

उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् ।
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ॥

3.156.17

वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् ।
त्वमप्यमरसन्काश वह कृष्णां घटोत्कच ॥

3.156.18

व्यक्तं दूरमितो भीमः प्रविष्ट इतिमे मतिः ।
चिरं चतस्य कालोऽयं स च वायुसमो जवे ॥

3.156.19

तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने ।
उत्पतेदपिचाकाशं निपतेच्चयथेच्छकम् ॥

3.156.20

तमन्वियाम भवतां प्रभावाद्रजनीचराः ।
पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ॥

3.156.21

तथेत्युक्त्वा तु ते सर्वेहैडिम्बप्रमुखास्तदा ।
उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ॥

3.156.22

आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः ।
लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ॥

3.156.23

ते सर्वे त्वरिता गत्वा ददृशुस्तत्र कानने ।
पद्मसौगन्धिकवतीन्नलिनीं सुमनोरमाम् ॥

3.156.24

तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् ।
ददृशुर्निहतांश्चैव यक्षांश्च विपुलेक्षणान् ॥

3.156.25

भिन्नकायाक्षिबाहूरुन्सञ्चूर्णितशिरोधरान् ।
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् ॥

3.156.26

सक्रोधं स्तव्धनयनं सन्दष्टदशनच्छदम् ।
उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् ॥

3.156.27

प्रजासन्क्षेपसमये दण्डहस्तमिवान्तकम् ।
तं दृष्ट्वा धर्मराजस्तु परिष्वज्याथ भारत ॥

3.156.28

उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् । साहसं वत भद्रं ते देवानामपि चाप्रियम् ।
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥

3.156.29

अनुशिष्य तु कौन्तेयं पद्मानि परिगृह्य च ।
तस्यामेव नलिन्यां तु विजह्ररमरोपमाः ॥

3.156.30

एतस्मिन्नैव काले तु प्रगृहीतशिलायुधाः ।
प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ॥

3.156.31

ते दृष्ट्वाधर्मराजानं महर्षिं चापि लोमशम् ।
नकुलं सहदेवं च तथाऽन्यान्ब्राह्मणर्षभान् ॥

3.156.32

विनयेन नताः सर्वेप्रणिपत्य च भारत ।
सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः ॥

3.156.33

विदिताश्चकुबेरस्य तत्रते कुरुपुङ्गवाः । ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः ।
प्रतीक्षमाणआ बीभत्सुं गन्धमादनसानुषु ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc