भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.14

3.14.1

असान्निध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन ।
क्व चासीद्विप्रवासस्ते किञ्चाकार्षीः प्रवासतः ॥
कृष्ण उवाच ।

3.14.2

साल्वस्य नगरं सौभं गतोऽहं भरतर्षभ ।
निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम् ॥

3.14.3

महातेजा महांवाहुर्यः स राजा महायशाः ।
दमघोषात्मजो वीरः शिशुपालो मया हतः ॥

3.14.4

यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति ।
स रोषवशमापन्नो नामृष्यत दुरात्मवान् ॥

3.14.5

श्रुत्वा तं निहतं साल्वस्तीव्ररोषसमन्वितः ।
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ॥

3.14.6

स तत्र युद्धमकरोद्बालकैर्वृष्णिपुङ्गवैः ।
निवृत्तः कामगं सौभमारुह्यैव नृशंसवत् ॥

3.14.7

चिरजीवी नृपः सोऽपि प्रसादात्पद्मजन्मनः । ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा ।
पुरोद्यानानि सर्वाणि भेदयामास दुर्भतिः ॥

3.14.8

उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः ।
वासुदेवः स मन्दात्मा वसुदेवसुतो गतः ॥

3.14.9

तस्य युद्धार्थिनो दर्पं युद्धेनाशयिताऽस्म्यहम् ।
आनर्ताः सत्यमाख्यात तत्र गन्ताऽस्मि यत्र सः ॥

3.14.10

तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् । अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ।

3.14.11

क्वासौ क्वासाविति पुनस्तत्रतत्र प्रधावति ।
मया सह रणे योद्धुं काङ्क्षमाणः स सौभराट् ॥

3.14.12

अद्यतं पापकर्माणं क्षुद्रं विश्वासघातिनम् ।
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ॥

3.14.13

मम पापस्वभावेन भ्राता येन निपातितः ।
शिशुपालो महीपालस्तं वधिष्ये महीतले ॥

3.14.14

भ्राता बालश्च राजा च न च सन्ग्रामकोविदः । प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ।

3.14.15

एकमादि महाराज विलप्यदिवमास्थितः ।
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥

3.14.16

तमश्रौषमहं गत्वा यथा वृत्तः स दुर्मतिः ।
मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः ॥

3.14.17

ततोऽहमपि कौरव्य रोषव्याकुललोचनः ।
निश्चित्य मनसा राजन्वधायास्य मनो दधे ॥

3.14.18

आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव ।
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥

3.14.19

ततः सौभवधायाहं प्रतस्थे पृथिवीपते ।
स मया सागरावर्ते दृष्ट आसीत्परीप्सता ॥

3.14.20

ततः प्रध्माप्य जलजं पाञ्चजन्यमहे नृप ।
आहूय साल्वं समरे युद्धाय समवस्थितः ॥

3.14.21

तन्मुहूर्तमभूद्युद्धं तत्र मे दानवैः सह ।
शवीभूताश्च मे सर्वे भूतले च निपातिताः ॥

3.14.22

एतत्कार्यं महाबाहो येनाहं नागमं तदा । श्रुत्वैव हास्तिनपुरे द्यूतं चाविनयोत्थितम् ।
द्रुतमागतवान्युष्मान्द्रष्टुकामः सुदुःखितान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc