भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.13

3.13.1

नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप ।
यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा ॥

3.13.2

आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः । आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च ।
वारयेयमहं द्यूतं बहून्दोपान्प्रदर्शयन् ॥

3.13.3

भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ।
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव ॥

3.13.4

पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ।
तत्राचक्षमहं दोषान्यैर्भवान्व्यतिरोपितः ॥

3.13.5

वीरसेनसुतो यैस्तु राज्यात्प्रभ्रंशितः पुरा ।
अतर्कितविनाशश्च देवनेन विशाम्पते ॥

3.13.6

सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ॥

3.13.7

स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् ।
दुःखं चतुष्टय प्रोक्तं यैर्नरो भ्रश्यते श्रियः ॥

3.13.8

तत्रसर्वत्रवक्तव्यं मन्यन्ते शास्त्रकोविदाः ।
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ॥

3.13.9

एकाहाद्द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च ।
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ॥

3.13.10

एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम् ।
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ॥

3.13.11

एवमुक्तो यदि मया गृह्णीयाद्वचनं मम ।
अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्दन ॥

3.13.12

न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः ।
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ॥

3.13.13

अथैनमविनीतेन सुहृदो नाम दुर्हृदः ।
सभासदोऽनुवर्तेरंस्तांश्च इन्यां दुरोदरान् ॥

3.13.14

असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा ।
येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम् ॥

3.13.15

सोहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन ।
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ॥

3.13.16

श्रुत्वैव चाहं राजेन्द्र परमोद्विग्रमानसः ।
तूर्णमभ्यागतोस्मित्वां द्रष्टुकामो विशम्पते ॥

3.13.17

अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ । सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc