महाभारत · अध्याय 3.15
वासुदेव महाबाहो विस्तरेण महामते ।
सौभस्य वधमाचक्ष्व न हि तृष्यामि कथ्यतः ॥
वासुदेव उवाच ।
हतं श्रुत्वा महाबाहौ मया श्रौतश्रवं नृप ।
उपायाद्भरतश्रेष्ठ साल्वो द्वारवतीं पुरीम् ॥
अरुणत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन ।
साल्वो वैहायसं चापि तत्पुरं व्यूह्य धिष्ठितः ॥
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् ।
अभिसारेण सर्वेण तत्र युद्धमवर्तत ॥
पुरी समन्ताद्विहिता सपताका सतोरणा ।
सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥
सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा ।
सचक्रग्रहिणी चैव सोल्कालातावपोथिका ॥
सोष्टिका भरतश्रेष्ठ सभेरीपणवानका ।
सतोमराङ्कुशा राजन्सशतघ्नीकलाङ्गला ॥
सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा । लोहचर्मवती चापि साग्निः सगुडशृङ्गिका ।
शास्त्रदृष्टेन विधिना सुयुक्ता भरतर्षभ ॥
रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः ।
पुरुषैः कुरुशार्दूल समर्थैः प्रतिवारणे ॥
अतिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे । मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता ।
उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः ॥
आघोषितं च नगरे न पातव्या सुरेति वै ।
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः ॥
प्रमत्तेष्वभिघातं हि कुर्यात्साल्वो नराधिपः ।
इति कृत्वाऽप्रमत्तास्ते सर्वेवृष्ण्यन्धकाः स्थिताः ॥
आनर्ताश्च तथा सर्वे नटनर्तकगायकाः ।
बहिर्निर्वासिताः सर्वे रक्षद्भिर्वित्तसञ्चयम् ॥
सन्क्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः ।
परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ॥
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः । समन्तात्क्रोशमात्रं च कारिता विषमा च भूः ।
सन्क्रमा भेदिताः सर्वे प्राकाराश्च नवीकृताः ॥
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् ।
प्रकृत्या चायुधोपेतं विशेषेण तदाऽनघ ॥
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् ।
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ॥
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते ।
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ॥
अनुरध्यासु सर्वासु चत्वरेषु च कौरव ।
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् ॥
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् ।
कृतोपधानं च तदा बलमासीद्विशाम्पते ॥
न कृप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी ।
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ॥
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः । आहुकेन सुगुप्ता च राज्ञा राजीवलोचन ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0