भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.118

3.118.1

ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः ।
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ॥

3.118.2

धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे ।
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ॥

3.118.3

किन्नु तैर्न कृतम्पापं यैर्बवांस्तपसि स्तितः ।
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ॥

3.118.4

किन्नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च ।
अयुध्यमानं धर्मज्ञमेकं हत्वाऽनपत्रपाः ॥
अकृतव्रण उवाच ।

3.118.5

लालप्यैवं सकुस्न्णं बहु नानाविधं नृप ।
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ॥

3.118.6

ददाह पितरं चाग्नौ रामः परपुरञ्जयः ।
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ॥

3.118.7

सन्क्रुद्धोऽतिबलः सङ्ख्ये शस्त्रमादाय वीर्यवान् ।
जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ॥

3.118.8

तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ ।
तांश्च सर्वानवामृद्गाद्रामः प्रहरतांवरः ॥

3.118.9

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रियां प्रभुः ।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥

3.118.10

स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः ।
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ॥

3.118.11

ततो यज्ञेन महता जामदग्न्यः प्रतापवान् ।
तर्पयामास देवेन्द्रमृत्विग्भ्यः प्रददौ महीम् ॥

3.118.12

वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने ।
दशव्यामायतां कृत्वा नवोत्सेधां विशाम्पते ॥

3.118.13

तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा ।
व्यभजंस्ते तदा राजन्प्रख्याताः खाण्डवायनाः ॥

3.118.14

स प्रदाय महीं तस्मै कश्यपाय महात्मने । तपः सुमहदास्थाय महाबलपराक्रमः ।
अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ॥

3.118.15

एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः ।
पृथिवी चापि विजिता रामेणामिततेजसा ॥
वैशम्पायन उवाच ।

3.118.16

ततश्चतुर्दशीं रामः समयेन महामनाः ।
दर्शयामास तान्विप्रान्धर्मराजं ज सानुजम् ॥

3.118.17

स तमानर्च राजेन्द्र भ्रातृभिः सहितः प्रभुः ।
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ॥

3.118.18

अर्जित्वा जामदग्न्यं स पूजितस्तेन चोदितः । महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc