भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.117

3.117.1

स वेदाध्ययने युक्तो जमदग्निर्महातपाः ।
तपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥

3.117.2

स प्रसेनजितं राजन्नधिगम्य नराधिपम् ।
रेणुकां वरयामास स च तस्मै ददौ नृपः ॥

3.117.3

रेणुकां त्वथ सम्प्राप्य भार्यां भार्गवनन्दनः ।
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥

3.117.4

तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः ।
सर्वेषामजघन्यस्तु राम आसीञ्जघन्यजः ॥

3.117.5

फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै ।
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥

3.117.6

सा तु चित्ररथं नाम मार्तिकावतकं नृपम् ।
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥

3.117.7

क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् ।
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥

3.117.8

व्यभिचाराच्च तस्मात्सा क्लिन्नाम्भसि विचेतना ।
अन्तरिक्षान्निपतिता नर्मदायां महाह्रदे ॥

3.117.9

उतीर्य चापि सा यत्नाज्जगाम भरतर्षभ ।
प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ॥

3.117.10

स तां दृष्ट्वाच्युतान्धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् ।
श्रिक््शब्देन महातेजा गर्हयामास वीर्यवान् ॥

3.117.11

ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः ।
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥

3.117.12

तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् ।
न च ते जातसम्मोहाः किञ्चिदूचुर्विचेतसः ॥

3.117.13

ततः शशाप तान्क्रोधात्ते शप्ताश्चैतनां जहुः ।
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥

3.117.14

ततो रामोऽभ्ययात्पश्चादाश्रमं परवीरहा ।
तमुवाच महामन्युर्जमदग्निर्महातपाः ॥

3.117.15

जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः ।
तत आदाय परशुं रामो मातु शिरोऽहरत् ॥

3.117.16

ततस्तस्य महाराज जमदग्नेर्महात्मनः ।
कोपोऽभ्यगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ॥

3.117.17

ममेदं वचनात्तात कृतं ते कर्म दुष्करम् ।
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ॥

3.117.18

स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै ।
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥

3.117.19

अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत ।
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥

3.117.20

कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो ।
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥

3.117.21

तमाश्रमपदं प्राप्तमृषिरर्ध्यात्समार्चयत् ।
स युद्धमदसम्मत्तो नाभ्यनन्दत्तथाऽर्चनम् ॥

3.117.22

प्रमथ्य चाश्रमात्तस्माद्धोमधेनोस्ततोबलात् ।
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥

3.117.23

आगताय च रामाय तदाचष्ट पिता स्वयम् । गां च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत् ।
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् ॥

3.117.24

तस्याथ युधि विक्रम्य भार्गवः परवीरहा ।
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसन्निभान् ॥

3.117.25

सहस्रसम्मितान्राजन्प्रगृह्य रुचिरं धनुः ।
अभिभूतः स रामेण संयुक्तः कालधर्मणा ॥

3.117.26

अर्जुनस्याथ दायादा रामेण कृतमन्यवः ।
आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ॥

3.117.27

ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् ।
असकृद्रामरामेति विक्रोशन्तमनाथवत् ॥

3.117.28

कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर ।
घातयित्वा शरैर्जग्मुर्यथागतमरिन्दमाः ॥

3.117.29

अपक्रान्तेषु वै तेषु जमदग्नौ तथा गते ।
समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥

3.117.30

स दृष्ट्वा पितरं वीरस्तदा मृत्युवशं गतम् । अनर्हं तं तथाभूतं विललाप सुदुःखितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc