भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.119

3.119.1

गच्छन्स तीर्थानि महानुभावः । पुण्यानि रम्याणि ददर्श राजा ।
सर्वाणि वैप्रैरुपशोभितानि क्वचित्क्वचिद्भारत सागरम्य ॥

3.119.2

स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः ।
समुद्रगां पुण्यतमां प्रशस्तां जगाम पारिक्षित पाण्डुपुत्रः ॥

3.119.3

तत्रापि चाप्लुत्य महानुभाव सन्तर्पयामास पितृडन्सुरांश्च ।
द्विजातिमुख्येषु धनं विसृज्य गोदावरीं सागरगामगच्छत् ॥

3.119.4

ततो विपाप्मा द्रविडेषु राज- न्समुद्रमासाद्य च लोकपुण्यम् ।
अगस्त्यतीर्थं च महापवित्रं- नारीतीर्थान्यथा वीरो ददर्श ॥

3.119.5

तत्रार्जुनस्याग्र्यधनुर्धरस्य निशम्य तत्कर्म परैरशक्यम् ।
सम्पूज्यमानः परमर्षिसङ्घैः परां मुदं पाणअडुसुतः स लेभे ॥

3.119.6

स तेषु तीर्थेष्वभिषिक्तगात्रः कृष्णासहायः सहितोऽनुजैश्च ।
सम्पूजयन्विक्रममर्जुनस्य रमे महीपालपतिः पृथिव्याम् ॥

3.119.7

ततः सहस्राणि गवां प्रदाय तीर्थेषु तेष्वम्बुधरोत्तमस्य ।
हृष्टः सह भ्रातृभिरर्जुनस्य सन्कीर्तयामास गवां प्रदानम् ॥

3.119.8

स तानि तीर्थानि च सागरस्य पुण्यानि चान्यानि बहूनि राजन् ।
क्रमेण गच्छन्परिपूर्णकामः शूर्पारकं पुण्यतमं ददर्श ॥

3.119.9

तत्रोदधेः कञ्चिदतीत्य देशं ख्यातं पृथिव्यां वनमाससाद ।
तप्तं सुरैरत्र तपः पुरस्ता- दिष्टुं कतथा पुण्यपरैर्नरेन्द्रैः ॥

3.119.10

स तत्र तामग्र्यधनुर्धरस्य वेदीं ददर्शायतपीनबाहुः ।
ऋचीकपुत्रस्य तपस्विसङ्घैः समावृतां पुण्यकृदर्चनीयाम् ॥

3.119.11

ततो वसूनां वसुधाधिपः स मरुद्गणानां च तथाश्विनोश्च ।
वैवस्वतादित्यधनेश्वराणा- मिन्द्रस्य विष्णोः सवितुर्विभोश्च ॥

3.119.12

भगस्य चन्द्रस्य दिवाकरस्य पतेरपां साध्यगणस्य चैव ।
धातुः पितॄणां च तथा महात्मा रुद्रस्य राजन्सगणस्य चैव ॥

3.119.13

सरस्वत्याः सिद्धगणस्य चैव पूष्णश्च ये चाप्यमरास्तथाऽन्ये ।
पुण्यानि चाप्यायतनानि तेषां ददर्श राजा सुमनोहराणि ॥

3.119.14

तेषूपवासान्विबुधानुपोष्य दुत्त्वा च रत्नानि महान्ति राजा ।
तीर्थेषु सर्वेषु परिप्लुताङ्गः पुनः स शूर्पारकमाजगाम ॥

3.119.15

स तेन तीरेण तु सागरस्य पुनः प्रयातः सह सोदरीयैः ।
द्विजैः पृथिव्यां प्रथितं महद्भि- स्तीर्थं प्रभासं समुपाजगाम ॥

3.119.16

तत्राभिषिक्तः पृथुलोहिताक्षः सहानुजैर्देवगणान्पितॄंश्च ।
सन्तर्पयामास तथैव कृष्णा ते चापि विप्राः सह लोमशेन ॥

3.119.17

कस द्वादशाहं जलवायुभक्षः कुर्वन्क्षपाहःसु तदाऽभिषेकम् ।
समन्ततोऽग्नीनुपदीपयित्वा तेपे तपो धर्मभृतांवरिष्ठः ॥

3.119.18

तमुग्रमास्थाय तपश्चरन्तं शुश्राव रामश्च जनार्दनश्च ।
तौ सर्ववृष्णिप्रवरौ ससैन्यौ युधिष्ठिरं जग्मतुराजमीढम् ॥

3.119.19

ते वृष्णयः पाण्डुसुतान्समीक्ष्य भूमौ शयानान्मलदिग्धगात्रान् ।
अनर्हतीं द्रौपदीं चापि दृष्ट्वा सुदुःखिताश्चुक्रुशुरार्तनादान् ॥

3.119.20

ततः स रामं च जनार्दनं च कार्ष्णि च साम्बं च शिनेश्च पौत्रम् ।
अन्यांश्च वृष्णीनुपगम्य पूजां चक्रे यथाधर्ममहीनसत्वः ॥

3.119.21

ते चापि सर्वान्प्रतिपूज्य पार्थां- स्तैः सत्कृताः पाण्डुसुतैस्तथैव ।
युधिष्ठिरं सम्परिवार्य राज- न्नुपाविशन्देवगणा यथेन्द्रम् ॥

3.119.22

तेषां स सर्वं चरितं परेषां वने च वासं परमप्रतीतः ।
अस्त्रार्थमिन्द्रस्य गतं च पार्थं कृष्णे शशंसामरराजसूनुम् ॥

3.119.23

श्रुत्वा तु ते तस्य वचः प्रतीता- स्तांश्चापि दृष्ट्वा सुकृशनतीव ।
नेत्रोद्भवं सम्मुमुचुर्महार्हा दुःखार्तिजं वारि महानुभावाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc