भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.108

3.108.1

स तु राजा महेष्वासश्चक्रवर्ती महारथः ।
बभूव सर्वलोकस् मनोनयननन्दनः ॥

3.108.2

स शुश्राव महाबाहुः कपिलेन महात्मना ।
पितॄणआं निधनं घोरमप्राप्तिं त्रिदिवस्य च ॥

3.108.3

स राज्यं सचिवे न्यस्य हृदयेन विदूयता ।
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥

3.108.4

आरिराधयिषुर्गङ्गां तपसा दग्धकिल्विषः ।
सोऽपश्यत नर्रेष्ठ हिमवन्तं नगोत्तमम् ॥

3.108.5

शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलन्कृतम् ।
पवनालम्बिभिर्मेघैः परिपिक्तं समन्ततः ॥

3.108.6

नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् ।
गुहाकन्दरसंलीनसिंहव्याघ्रनिषेवितम् ॥

3.108.7

शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः ।
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥

3.108.8

मयूरैः शतपत्रैश्च जीवञ्जीवककोकिलैः ।
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ॥

3.108.9

जलस्थानेषु रम्येषु पद्मिनीभिश्च सन्कुलम् ।
सारसानां च मधुरैर्व्याहृतैः समलन्कृतम् ॥

3.108.10

किन्नरैरप्सरोभिश्च निषेवितशिलातलम् ।
दिग्वारणविषाणाग्रैः समन्ताद्धृष्टपादपम् ॥

3.108.11

विद्याधरानुचरितं नानारत्नसमाकुलम् ।
विषोल्वणैर्भुजङ्गैश्च दीप्ताजिह्वैर्निषेवितम् ॥

3.108.12

क्वचित्कनकसन्काशं क्वचिद्रजतसन्निभम् ।
क्वचिदञ्जनपुञ्जाभं हिमवनतमुपागमत् ॥

3.108.13

स तु तत्रनरश्रेष्ठस्तपो घोरं समाश्रितः ।
फलमूलाम्बुसम्भक्षः सहस्रपरिवत्सरान् ॥

3.108.14

संवत्सरसहस्रे तु गते दिव्ये महानदी ।
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥
गङ्गोवाच ।

3.108.15

किमिच्छसि महाराज म्तः किञ्च ददानि ते ।
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥

3.108.16

एवमुक्तः प्रत्युवाच राजा हैमवतीं नदीम् । तदा भगीरथो राजन्प्रणिपत्य कृताञ्जलिः ।
पितामहा मे वरदे कपिलेन महानदि ॥

3.108.17

अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ।
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् ॥

3.108.18

कपिलं देवमासाद्य क्षणेन निधनं गताः ।
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते ॥

3.108.19

यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ।
तावत्तेषां गतिर्नास्ति सागराणां महानदि ॥

3.108.20

स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् ।
तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥
लोमश उवाच ।

3.108.21

एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता ।
भगीरथमिदं वाक्यं सुप्रीता समभाषत ॥

3.108.22

करिष्यामि माहाराज वचस्ते नात्र संशयः ।
वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥

3.108.23

न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप ।
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥

3.108.24

तं तोषय रमहाबाहो तपसा वरदं हरम् ।
स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ॥

3.108.25

स करिष्यति ते रकामं पितॄणां हितकाम्यया ।
तपसाऽराधितः शम्भुर्भगर्वाँल्लोकभावनः ॥

3.108.26

एतच्छ्रुत्वा ततो राजन्महाराजो भगीरथः ।
कैलासं पर्वतं गत्वा तोषयामास शन्करम् ॥

3.108.27

ततस्तेन समागम्य कालयोगेन केनचित् ।
गह्गावतरणं राजन्नयाचत महीपतिः ॥

3.108.28

अगृह्णाच्च वरं तस्माद्गङ्गाया धारणे नृप । स्वर्गे वासं समुद्दिश् पितॄणां स नरोत्तमः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc