महाभारत · अध्याय 3.107
*तेतं दृष्ट्वा हयं राजन्सम्प्रहृष्टतनूरुहाः ।
अनादृत् महात्मानं कपिलं कालचोदिताः ॥
सम्फुद्धाः सम्प्रधावन्त वाजिग्रहणकाङ्क्षिणः ।
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः ॥
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम् ।
स चक्षुर्विकतं कृत्वा तेजस्तेषु समुत्सृजन् ॥
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ।
षष्टिं रतानि सहस्राणि युगपन्मुनिसत्तमः ॥
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः ।
सगरान्तिकमागत्य तच्च तस्मै न्यवेदयत् ॥
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् ।
महूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ॥
स पुत्रनिधनोत्थेन दुःखेन समभिप्लुतः ।
आत्मानमात्मनाऽश्वास्य हयमेवान्वचिन्तयत् ॥
अशुमन्तं समाहूय असमञ्जसुतं तदा ।
पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥
षष्टिस्तात सहस्राणि पुत्राणाममितौजसाम् ।
कापिलं तेज आसाद्य मत्कृतेनिधनं गताः ॥
तव चापि पिता तात परित्यक्तो मयाऽनघ ।
धर्मं संरक्षमाणेन पौराणां हितमिच्छता ॥
युधिष्ठिर उवाच ।
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् ।
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥
लोमश उवाच ।
असमञ्ज इति ख्यातः सगरस्य सुतो ह्यभूत् ।
यं शैव्या जनयामास पौराणां स हि दारकान् ॥
क्रीडतः सहसाऽसाद्य तत्रतत्र महीपते ।
चूडासु क्रोशतो गृह्यनद्यां चिक्षेप दुर्बलान् ॥
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः ।
सगरं चाभ्यभाषन्त सर्वे प्राञ्जलयः स्थिताः ॥
त्वं नस्त्राता महाराज परचक्रादिभिर्भयात् ।
असमञ्जभयाद्धोरात्ततो नस्त्रातुनर्हसि ॥
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः ।
मुहूर्तं विमना भूत्वासचिवानिदमब्रवीत् ॥
असमञ्ज पुरादद्य सुतो मे विप्रवास्यताम् ।
यदि वो मत्प्रियं कार्यमेतच्छीध्रं विधीयताम् ॥
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप ।
यथोक्तं त्वरिताश्चक्रुर्यथाऽज्ञापितवान्नृपः ॥
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना ।
पौराणां हितकामेन सगरेण विवासितः ॥
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हि ।
तत्ते सर्वम्प्रवक्ष्यामि कीर्त्यमानं निबोध मे ॥
सगर उवाच ।
पितुश् तेऽहन्त्यागेन पुत्राणां निधनेन च ।
अलाभेन तथाऽश्वस् परितप्यामि पुत्रक ॥
तस्माद्दुःखाभिसन्तप्तं यज्ञविघ्नाच्च मोहितम् ।
हयस्यानयनात्पौत्र नरकान्मां समुद्धर ॥
लोमश उवाच ।
अंशुमानेवमुक्तस्तु सगरण महात्मना ।
जगाम दुःखात्तं देशं यत्रवै दारिता मही ॥
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह ।
अपश्यच्च महात्मानं कपिलं तुरगं च तम् ॥
स दृष्ट्वा तेजसो राशिं पुराणमृपिसत्तमम् ।
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥
ततः प्रीतो महाराज कपिलोंऽशुमतोऽभवत् ।
उवाच चैनं धर्मात्मा वरदोस्मीति भारत ॥
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् ।
द्वितीयमुदकं वव्रे पितॄणां पावनेच्छया ॥
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः ।
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ॥
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् ।
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ॥
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः ।
शलभत्वं गता ये ते मम क्रोधहुताशने ॥
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति ।
पावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥
हयं नयस्व भद्रं ते याज्ञिं नरपुङ्गव ।
यज्ञः समाप्यतां तात सगरस्य महात्मनः ॥
अंशुमानेवमुक्तस्तु कपिलेन महात्मना ।
आजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥
सोभिवाद्य ततः पादौ सगरस्य महात्मनः ।
मूर्ध्नि तनाप्युपाघ्रातस्तस्मै सर्वन्नय्वेदयत् ॥
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा ।
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् ।
अंशुमन्तं च सम्पूज्यसमापयत तं क्रतुम् ॥
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः ।
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ॥
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः ।
पौत्रे भारं समवेश्य जगाम त्रिदिवं तदा ॥
अंशुमानपि धर्मात्मा महीं सागरमेखलाम् ।
प्रशशास महाराज यथैवास् पितामहः ॥
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् ।
तस्मिन्राज्यं समाधाय अंशुमानपि संस्थितः ॥
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् ।
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥
गङ्गावतरणए यत्नं सुमहच्चाकरोन्नृपः ।
न चावतारयामास चेष्टमानो यथाबलम् ॥
तस् पुत्र समभवच्छ्रीमान्धर्मपराणः ।
भगीरथ इति ख्यातः सत्यवागनसूयकः ॥
अभिषिच्य तु तं राज्येदिलीपो वनमाश्रितः ॥
तपः सिद्धिसमायोगात्स राजा भरतर्षभ । वनाज्जगाम त्रिदिवं कालयोगेन भारत ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0