भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.111

3.111.1

एषा देवनदी पुण्या कौशिकी भरतर्षभ ।
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ॥

3.111.2

आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः ।
ऋश्यशृङ्गः सुतो यस् तपस्वी संयतेन्द्रियः ॥

3.111.3

तपसो यः प्रभावेन वर्षयामास वासवम् ।
अनावृष्ठ्यां भयाद्यस्य ववर्ष बलवृत्रहा ॥

3.111.4

मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः ।
विषये लोमपादस्य यश्चकाराद्भुतं महत् ॥

3.111.5

निर्वर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः ।
लोमपादो दुहितरं सावित्रीं सविता यथा ॥
युधिष्ठिर उवाच ।

3.111.6

ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः ।
विरुद्धयोनिसंसर्गः कथं च तपसा युतः ॥

3.111.7

किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः ।
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ॥

3.111.8

कथंरूपा च सा शान्ता राजपुत्री पतिव्रता ।
लोभयामास या चेतो मृगभूस्य तस्य वै ॥

3.111.9

लोमपादश्च राजर्षिर्यदाऽश्रूयत धार्मिकः ।
कथं वै विषये तस्य नावर्षत्पाकशासनः ॥

3.111.10

एतन्मे भगवन्सर्वं विस्तरेण यथातथम् ।
वक्तुमर्हसि शुश्रूषोरृश्यशृङ्गस् चेष्टितम् ॥
लोमश उवाच ।

3.111.11

विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः ।
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ॥

3.111.12

शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् ।
महाह्रदे महातेजा बालः स्थविरसम्भतः ॥

3.111.13

महाह्रदं समासाद्य काश्यपस्तपसि स्थितः ।
दीर्घकालं रिश्रान्त ऋषिर्देवर्षिसम्मितः ॥

3.111.14

तस्य रेतः प्रचस्कन्द दृष्ट्वाऽप्सरसमुर्वशीम् । अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा ।
सह तोयेन तृषिता गर्भिणी चाभवत्ततः ॥

3.111.15

सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा ।
देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे ॥

3.111.16

अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् । तस्यां मृग्यां समभवत्तस्व पुत्रो महानृषिः ।
ऋश्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्धत ॥

3.111.17

तस्य शृङ्गं शिरसि वै राजन्नासीन्महात्मनः ।
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ॥

3.111.18

न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्रमानुषः ।
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ॥

3.111.19

एतस्मिन्नेव काले तु सखा दशरशस्य वै ।
कलोमपाद इतिख्यातो ह्यङ्गानामीश्वरोऽभवत् ॥

3.111.20

तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः । दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत ।
स ब्राह्मणैः परित्यक्तस्तदा भरतसत्तम ॥

3.111.21

पुरोहितापचाराच्च तस्य राज्ञो यदच्छया ।
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ॥

3.111.22

स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः ।
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपते ॥

3.111.23

कथं प्रवर्षेत्पर्जन्य उपायः परिमृश्यताम् ।
तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः ॥

3.111.24

तत्र त्वेको रमुनिवरस्तं राजानमुवाच ह ।
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर ॥

3.111.25

ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव ।
ऐणेयमनभिज्ञं च नारीणामार्जवे रतम् ॥

3.111.26

स चेदवतरेद्राजन्विषयं ते महातपाः ।
सद्यः प्रवर्षेत्पर्जन्य इति मे नास्ति संशयः ॥

3.111.27

एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः ।
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ॥

3.111.28

राजानमागतं ज्ञात्वा प्रतिसञ्जगृहुः प्रजाः ।
स च ता प्रतिजग्राह पितेव हितकृत्सदा ॥

3.111.29

ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् ।
ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ॥

3.111.30

सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः ।
शास्त्रज्ञैरलमर्थज्ञौर्नीत्यां च परिनिष्ठितैः ॥

3.111.31

ततश्चानाययामास वारमुख्या महीपतिः ।
वेश्याः सर्वत्रनिष्णातास्ता उवाच स पार्थिवः ॥

3.111.32

ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः ।
लोभयित्वाऽभिविश्चास्य विषयं मम शोभनाः ॥

3.111.33

ता राजभयभीताश्च शापभीताश्च योषितः ।
अशक्यमूचुस्तत्कार्यं विषण्णा गतचेतसः ॥

3.111.34

तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् ।
प्रयतिष्ये महाराज तमानेतुं तपोधनम् ॥

3.111.35

अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि ।
ततः शक्ष्याम्यानयितुमृश्यशृङ्गमृषेः सुतम् ॥

3.111.36

तस्याः सर्वमभिप्रेतमन्वजानात्स पार्थिवः ।
धनं च प्रददौ भूरि रत्नानि विविधानि च ॥

3.111.37

ततो रूपेण सपन्ना वयसा च महीपते । स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc