भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.73

2.73.1

अनुसंसार्य नृपतीन्पाण्डवाः पाण्डवाग्रजम् ।
अभिजग्मुर्महेष्वासा धर्मराजं युधिष्ठिरम् ॥

2.73.2

सोऽनुमेने महाबाहुर्भातॄंश्च सुहृदस्तथा ।
शिष्यैः परिवृतो व्यासः पुरस्तात्समपद्यत ॥

2.73.3

सोऽभ्ययादासनात्तूर्णं भ्रातृभिः परिवारितः ।
पाद्येनासनदानेन पितामहमपूजयत् ॥

2.73.4

अथोपविश्य भगवान्काञ्चने परमासने ।
आस्यतामिति चोवाच धर्मराजं युधिष्ठिरम् ॥

2.73.5

अथोपविष्टं राजानं भ्रातृभिः परिवारितम् ।
उवाच भगवान्व्यासस्तत्तद्वाक्यविशारदः ॥

2.73.6

दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम् ।
वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह ॥

2.73.7

आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते ।
एवमुक्तः स कृष्णेन धर्मराजो युधिष्ठिरः ॥

2.73.8

अभिवाद्योपसङ्गृह्य पितामहमथाब्रवीत् ॥
युधिष्ठिर उवाच ।

2.73.9

संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः ।
तस्य नान्योऽस्ति वक्ता वै त्वामृते द्विजपुङ्गव ॥

2.73.10

उत्पातांस्त्रिविधान्प्राह नारदो भगवानृषिः ।
दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह ॥

2.73.11

सुमहच्च फलं तेषां भवितेति न संशयः ।
अपि चैद्यस्य पतनाच्छान्तमौत्पातिकं महत् ॥
वैशम्पायन उवाच ॥

2.73.12

राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः ।
कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत् ॥

2.73.13

त्रयोदश समा राजन्नुत्पातानां फलं महत् ।
सर्वक्षत्रविनाशाय भविष्यति विशाम्पते ॥

2.73.14

त्वामेकं कारणं कृत्वा कालेन भरतर्षभ । समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत ।
दुर्योधनापराधेन भीमार्जुनबलेन च ॥

2.73.15

स्वप्नं द्रक्ष्यसि राजेन्द्र तस्मिन्काल उपस्थिते ।
तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर ॥

2.73.16

यान्तं द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम् ।
नीलकण्ठं भवं स्थाणुं कपालिं त्रिपुरान्तकम् ॥

2.73.17

उग्रं रुद्रं पशुपतिं महादेवमुमापतिम् ।
हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम् ॥

2.73.18

कैलासकूडप्रतिमे वृषभेऽवस्थितं शिवम् ।
निरीक्षमाणं सततं पितृराजाश्रितां दिशम् ॥

2.73.19

एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते ।
मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः ॥

2.73.20

स्वस्ति तेऽस्तु गमिष्यामि कैलासं पर्वतं प्रति ।
अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय ॥
वैशम्पायन उवाच ॥

2.73.21

एवमुक्त्वा स भगवान्कैलासं पर्वतं ययौ ।
कृष्णद्वैपायनो व्यासः सह शिष्यैः सहानुगैः ॥

2.73.22

गते पितामहे राजा चिन्ताशोकसमन्वितः ।
निः श्वसन्नुष्णमसकृत्तमेवार्थं विचिन्तयन् ॥

2.73.23

कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम् ।
अवश्यमेव भविता यदुक्तं परमर्षिणा ॥

2.73.24

ततोऽब्रवीन्महातेजाः सर्वान्भ्रातॄन्युधिष्ठिरः ।
श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत् ॥

2.73.25

तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः ।
सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः ॥

2.73.26

कालेन निर्मितस्तात को ममार्थोऽस्ति जीवतः ।
एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत ॥

2.73.27

मा राजन्कश्मलं घोरं प्रविशो बुद्धिनाशनम् ।
सम्प्रधार्य महाराज यत्क्षमं तत्समाचर ॥
वैशम्पायन उवाच ॥

2.73.28

ततोऽब्रवीत्सत्यधृतिर्भ्रातॄन्सर्वान्युधिष्ठिरः ।
द्वैपायनस्य वचनं तत्रैव समचिन्तयत् ॥

2.73.29

अद्यप्रभृति भद्रं वः प्रतिज्ञां मे निबोधत ।
त्रयोदश समास्तात को ममार्थो ऽस्ति जीवतः ॥

2.73.30

न प्रवक्ष्यामि परुषं भ्रातॄनन्यांश्च पार्थिवान् ।
स्थितो निदेशे ज्ञातीनां योक्ष्ये तत्सुमुदाहरन् ॥

2.73.31

एवं मे वर्तमानस्य स्वसुतेऽष्वितरेषु च ।
भेदो न भविता लोके भेदमूलो हि विग्रहः ॥

2.73.32

विग्रहं दूरतो रक्षन्प्रियाण्येव समाचरन् ।
वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः ॥

2.73.33

भ्रातृर्ज्येष्ठस्य वचनं पाण्डवाः सन्निशम्य तत ।
तमेव समवर्तन्त धर्मराजहिते रताः ॥

2.73.34

संसत्सु समयं कृत्वा धर्मराड्भ्रातृभिः सह ।
पितॄंस्तर्प्य यथान्यायं देवताश्च विशाम्पते ॥

2.73.35

कृतमङ्गलकल्यामो भ्रातृभिः पिरवारितः ।
गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ ॥

2.73.36

युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम् । दुर्योधनो महाराज शकुनिश्चापि सौबलः ।
सभायां समणीयायां तत्रैवास्ते नराधिप ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc