भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.74

2.74.1

वसन्दुर्योधनस्तस्यां सभायां पुरुषर्षभ ।
शनैर्ददर्श तां सर्वां सभां शकुनिना सह ॥

2.74.2

तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः ।
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥

2.74.3

स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः ।
स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया ॥

2.74.4

स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः ।
दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ॥

2.74.5

ततः स्थले निपतितो दुर्मना व्रीडितो नृपः ।
निः श्वसन्विमुखश्चापि परिचक्राम तां सभाम् ॥

2.74.6

ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् ।
वापीं मत्वा स्थलमिव सवासाः प्रापतञ्जले ॥

2.74.7

जले निपतितं दृष्ट्वा भीमसेनो महाबलः ।
जहास जहसुश्चैव किङ्कराश्च सुयोधनम् ॥

2.74.8

वासांसि च शुभान्यस्मै प्रददू राजशासनात् ।
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ॥

2.74.9

अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ।
नामर्षयत्ततस्तेषामवहासममर्षणः ॥

2.74.10

आकारं रक्षमाणस्तु न स तान्समुदैक्षत ।
पुनर्वसनमुत्क्षिप्य प्रतिरिष्यन्निव स्थलम् ॥

2.74.11

आरुरोह ततः सर्वे जहसुश्च पुनर्जनाः । द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः ।
प्रविशन्नाहतो मूर्ध्नि व्याघूर्णित इव स्थितः ॥

2.74.12

तादृशं च परं द्वारं स्फाटिकोरुकवाटकम् ।
विघट्टयन्कराभ्यां तु निष्क्रम्याग्रे पपात हा ॥

2.74.13

द्वारं तु वितताकारं समापेदे पुनश्च सः ।
तद्वृत्तं चेति मन्वानो द्वारस्थानादुपारमत् ॥

2.74.14

एवं प्रलम्भान्विविधान्प्राप्य तत्र विशाम्पते ।
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ॥

2.74.15

अपहृष्टेन मनसा राजसूये महाक्रतौ ।
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ॥

2.74.16

पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः ।
दुर्योधनस्य नृपतेः पापा मतिरजायत ॥

2.74.17

पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् ।
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ॥

2.74.18

महिमानं परं चापि पाण्डवानां महात्मनाम् ।
दूर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ॥

2.74.19

स तु गच्छन्ननेकाग्नः सभामेकोऽन्वचिन्तयत् ।
श्रियं च तामनुपमां धर्मराजस्य धीमतः ॥

2.74.20

प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा ।
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ॥

2.74.21

अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत ।
दुर्योधन कृतोमूलं निःश्वसन्निव गच्छसि ॥
दुर्योधन उवाच ॥

2.74.22

दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् ।
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ॥

2.74.23

तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल ।
यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः ॥

2.74.24

अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम् ।
शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ॥

2.74.25

पश्य सात्वतमुख्येन शिशुपालो निपातितः ।
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ॥

2.74.26

दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना ।
क्षान्तवन्तोऽपराधं ते को हि तत्क्षन्तुमर्हति ॥

2.74.27

वासुदेवेन तत्कर्म यथाऽयुक्तं महत्कृतम् ।
सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम् ॥

2.74.28

तथाहि रत्नन्यादाय विविधानि नृपा नृपम् ।
उपातिष्ठन्त कौन्येयं वैश्या इव करप्रदाः ॥

2.74.29

श्रियं तथागतं दृष्ट्वा ज्वलन्तीमिव पाण्डवे ।
अमर्षवशमापन्नो दह्यामि न तथोचितः ॥

2.74.30

वह्निमेव प्रवेक्ष््यामि भक्षयिष्यामि वा विषम् ।
अपो वापि प्रवेक्ष्यामिन हि शक्ष्यामि जीवितुम् ॥

2.74.31

को हि नाम पुमांल्लोके मर्षयिष्यति सत्ववान् ।
सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मानमेव च ॥

2.74.32

सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि ।
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ॥

2.74.33

ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् ।
यज्ञं च तादृशं दृष्ट्वा मादृशः को न सञ्ञ्ज्वरेत् ॥

2.74.34

अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् ।
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ॥

2.74.35

दैवमेव परं मन्ये पौरुषं च निरर्थकम् ।
दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा ॥

2.74.36

कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल ।
तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्गजम् ॥

2.74.37

तेन दैवं परं मन्ये पौरुषं च निरर्थकम् । धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः । 2-74-38च्कृष्णस्तु सुमनास्तेषां विवर्धयति सम्पदः ॥

2.74.38

सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् ।
रक्षिभिश्चावहासं तं परितप्ये यथाऽग्निना ॥

2.74.39

अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc