भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.72

2.72.1

ततः स कुरुराजस्य सर्वकर्मसमृद्धिमान् ।
यज्ञः प्रीतिकरो राजन्सम्बभौ विपुलोत्सवः ॥

2.72.2

शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् ।
अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ॥

2.72.3

समापयामास च तं राजसूयं महाक्रतुम् ।
कोटिसहस्रं प्रददौ ब्राह्मणानां महात्मनाम् ॥

2.72.4

न करिष्यति तं लोके कश्चिदन्यो महीपतिः ।
याजकाः सर्वकामैश्च सततं ततृपुर्धनैः ॥

2.72.5

ततश्चावभृथस्नातः स राजा पाण्डुनन्दनः ।
व्यासं धौम्यं वसिष्ठं च नारदं च महामुनिम् ॥

2.72.6

सुमन्तु जैमिनिं पैलं वैशम्पायनमेव च । याज्ञवल्क्यं च कपिलं कपालं कौशिकं तथा ।
सर्वांश्च ऋत्विक्प्रवरान्पूजयामास सत्कृतान् ॥
युधिष्ठिर उवाच ॥

2.72.7

युष्मत्प्रसादात्प्राप्तोऽयं राजसूयो महाक्रतुः ।
जनार्दनप्रसादाद्धि सम्पूर्णो मे मनोरथः ॥
वैशम्पायन उवाच ॥

2.72.8

अथ यज्ञं समाप्यान्ते पूजयामास माधवम् ।
बलदेव च देवेशं भीष्माद्यांश्च कुरूद्वहान् ॥

2.72.9

ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम् ।
समस्तं पार्थिवं क्षत्रमुपगम्येदमब्रवीत् ॥

2.72.10

दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि ।
आजमीढाजमीढानां यशः संवर्धितं त्वया ॥

2.72.11

कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ।
आपृच्छामो नरव्याघ्र सर्वकामैः सूपूजिताः ॥

2.72.12

स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ।
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः ॥

2.72.13

यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह ।
राजानः सर्व एवैते प्रीत्याऽस्मान्प्तमुपागताः ॥

2.72.14

प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छय परन्तपाः ।
अनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ॥

2.72.15

भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः ।
यथार्हं नृपतीन्सर्वानेकैकं समनुव्रजन् ॥

2.72.16

विरायटमन्वायात्तूर्णं धृष्टह्युम्नः प्रतापवान् ।
धनञ्जयो यज्ञसेनं महात्मानं महारथम् ॥

2.72.17

भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः ।
द्रोणं तु ससुतं वीरं सहदेवो युधां पतिः ॥

2.72.18

नकुलः सुबलं राजन्सहपुत्रं समन्वयात् ।
द्रौपदेयाः ससौभद्राः पार्वतीयान्महारथान् ॥

2.72.19

अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः ।
एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः ॥

2.72.20

गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च ।
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ॥

2.72.21

आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन ।
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ॥

2.72.22

तमुवाचैवमुक्तस्तु धर्मराजो जनार्दनम् ।
तव प्रसादाद्गोविन्द प्राप्तः क्रतुवरो मया ॥

2.72.23

क्षत्रं समग्रमपि च त्वत्प्रसादाद्वशे स्थितम् ।
उपादाय बलिं मुख्यं मामेव समुपस्थितम् ॥

2.72.24

कथं त्वद्गमनार्थं मे वाणी वितरतेऽनघ ॥

2.72.25

न ह्यहं त्वामृते वीरं रतिं प्राप्नोमि कर्हचित् ।
अवश्यं चैव गन्तव्या भवता द्वारका पुरी ॥
वैशम्पायन उवाच ॥

2.72.26

एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् ।
अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ॥

2.72.27

साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः ।
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ॥

2.72.28

अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे ।
सुभद्रां द्रौपदीं चैव सभाजयत केशवः ॥

2.72.29

निष्क्रम्यान्तः पुरात्तस्माद्युधिष्ठिरसहायवान् ।
स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ॥

2.72.30

ततो मेघवपुः प्रग्व्यं स्यन्दनं च सुकल्पितम् ।
योजयित्वा महाबाहुर्दारुकः समुपस्थितः ॥

2.72.31

उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् ।
प्रदक्षिणमुपावृत्य समारुह्य महामनाः ॥

2.72.32

प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ॥

2.72.33

तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ॥

2.72.34

ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः ।
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥

2.72.35

अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशाम्पते ।
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥

2.72.36

बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः ।
कृत्वा परस्परेणैव संवादं कृष्णपाण्डवौ ॥

2.72.37

अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ।
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप ॥

2.72.38

महादुर्योधनो राजा शकुनिश्चापि सौबलः ।
सूतपुत्रश्च गधेयः सह दुःशासनादिभिः ॥

2.72.39

सर्वकामगुणोपेतैरर्च्यमानास्तु भारत ।
तस्यां सभायां दिव्यायामवसंस्तत्र पाण्डवैः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc