भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.58

2.58.1

एवमालोकयाञ्चक्रुर्द्वारकामृषभास्त्रयः ।
उपेन्द्रबलदेवौ च वासवश्च महायशाः ॥

2.58.2

ततस्तं पाण्डरं शौरिर्मूर्ध्नि तिष्ठन्गरुत्मतः ।
प्रीतः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् ॥

2.58.3

तस्य शङ्खस्य शब्देन सारश्चुक्षुभे भृशम् ।
ररास च नभः सर्वं तच्चित्रमभवत्तदा ॥

2.58.4

पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्दकाः ।
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ॥

2.58.5

वसुदेवं पुरस्कृत्य वेणुशङ्खरवैः सह ।
उग्रसेनो ययौ राजा वासुदेवनिवेशनम् ॥

2.58.6

आनन्दितुं पर्यचन्स्वेषु वेश्मसु देवकी ।
रोहिणी च ययौ देशमाहुकस्य च याः स्त्रियः ॥

2.58.7

हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयटः ।
एवमुक्तः सह स्त्रीभिरक्षतैर्मधुसूदनः ॥

2.58.8

ततः शौरिः सुपर्णेन स्वं निवेशनमभ्ययात् ।
चकाराथ यथोद्देशमीश्वरो मणिपर्वतम् ॥

2.58.9

ततो धनानि रत्नानि सभायां मधुसूदनः ।
निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः ॥

2.58.10

ततः सान्दीपिनिं पूर्वं ब्राह्मणं चापि भारत ।
यथान्यायं वासुदेव उपस्पृष्ट्वा महायशाः ॥

2.58.11

ववन्दे पृथुताम्राक्षः प्रीयमाणो महायशाः ।
तथाऽश्रुपरिपूर्णाक्षमानन्दभृतचेतसम् ॥

2.58.12

ववन्दे सह रामेण पितरं वासवानुजः ।
ताभ्यां च मूर्ध्न्युपाघ्रातः केशवः परवीरहा ॥

2.58.13

यथाश्रेष्ठमुपागम्य सात्वतान्यदुनन्दनः ।
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः ॥

2.58.14

ततः सर्वाणि वित्तानि सर्वरत्नमयानि च ।
व्यभजत्तानि तेभ्योऽथ सर्वेभ्यो यदुनन्दनः ॥

2.58.15

सा केशवमहामात्रैर्महेन्द्रप्रतिमैः सभा ।
शुशुभे वृष्णिशार्दूलैः सिंहैरिव गिरेर्गुहा ॥

2.58.16

अथासनगतान्सर्वानुवाच विबुधाधिपः । शुभया हर्षयन्वाचा महेन्द्रस्तान्महायशाः ।
कुकुरान्धकमुख्यांश्च तं च राजानमाहुकम् ॥
इन्द्र उवाच ।

2.58.17

यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः ।
यत्कृतं वासुदेवेन तद्वक्ष्यामि समासतः ॥

2.58.18

अयं शतसहस्राणि दानवानामरिन्दमः ।
निहय् पुण्डरीकाक्षः पातालविवरं ययौ ॥

2.58.19

यच्च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः ।
तदिदं शौरिणा वित्तं प्रापितं भवतामिह ॥

2.58.20

सपाशं मुरमाक्रमय् पाञ्चजन्यं च धीमता ।
शिलासङ्घानतिक्रम्य निशुम्भः सगणो हतः ॥

2.58.21

हयग्रीवश्च विक्रान्तो दानवो निहतो बली ।
मथितश्च मृधे भौमः कुण्डले चाहृते पुनः ॥

2.58.22

पुनर्बाणवधे शौरिमादित्या वसुभिः सह ।
मन्मुखा आगमिष्यन्ति साध्याश्च मधुसूदनम् ॥

2.58.23

एवमुक्त्वा ततः सर्वानामन्त्र्य कुकुरान्धकान् ।
सस्वजे रामकृष्णौ च वसुदेवं च वासवः ॥

2.58.24

प्रद्युम्नसाम्बप्रमुखाननिरूद्धं च सारणम् ।
बभ्रुं झल्लिं गदं भानुं चारुदेष्णं च वृत्रहा ॥

2.58.25

सत्कृत्य सारणाक्रूरौ पुनराभाष्य सात्यकिम् । सस्वजे वृष्णिराजानमाहुकं कुकुराधिपम् ।
भोजं च कृतवर्णाणमन्यांश्चान्दकवृष्णिषु ॥

2.58.26

आमन्त्र्य देवप्रवरैर्वासवो वासवानुजम् ।
ततः श्वेताचलप्रख्यं गजमैरावतं प्रभुः ॥

2.58.27

पश्यतां सर्वभातानामारुरोह शचीपतिः ।
पृथिवीं चान्तरिक्षं च दिवं च वरवारणम् ॥

2.58.28

मुखाडम्बरनिर्घोषैः पूरयन्तमिवासकृत् ।
हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम् ॥

2.58.29

मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम् ।
नित्यस्रुतमदस्रावं क्षरन्तमिव तोयदम् ॥

2.58.30

दिशागजं महामात्रं काञ्चनस्रजमास्थितः ।
प्रबभौ मन्दराग्रस्थः प्रतपन्भानुमानिव ॥

2.58.31

ततो वज्मयं भीमं प्रगृह्य परामाङ्कुशम् ।
ययौ बलवता सार्धं पावकेन शचीपतिः ॥

2.58.32

तं करेणुगजव्रातैर्विमानैश्च मरुद्गणाः ।
पृष्ठतोऽनुययुः प्रीताः कुबेरवरुणग्रहाः ॥

2.58.33

स वायुपक्षमास्थाय वैश्वानरपथं गतः ।
प्राप्य सूर्यपथं देवस्तत्रैवान्तरधीयत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc