भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.57

2.57.1

तां पुरी द्वारकीं दृष्ट्वा विभुर्नारायणो हरिः ।
हृष्टः सर्वार्थसम्पन्नः ------- ॥

2.57.2

सोऽपश्यद्वृक्षषण्डांश्च रम्यान्नानाजनान्वहून् ।
समन्ततो द्वारवत्यां नानापुष्पफलान्वितान् ॥

2.57.3

अर्कचन्द्रप्रतीकाशैर्मेरुकूटनिभैर्गृहैः ।
द्वारकामावृतां रम्यां सुकृतां विश्वकर्मणा ॥

2.57.4

पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः ।
गङ्गासिन्धुप्रकाशाभिः परिघाभिरलङ्कृताम् ॥

2.57.5

प्राकारेणार्कवर्णेन पाण्डरेण विराजिताम् ।
वियन्मूर्ध्नि निविष्टेन द्यामिवाभ्रपरिच्छदाम् ॥

2.57.6

नन्दनप्रतिमैश्वापि मिश्रकप्रतिमैर्वनैः ।
तत्र सा विहिता साक्षान्नगरी विश्वकर्मणा ॥

2.57.7

------------ जनहर्षिणी ।
------------ प्रसादप्रवरैः शुभा ॥

2.57.8

तस्मिन्पुरवारश्रेष्ठे दाशार्हाणां यशस्विनाम् ।
नेश्मानि जहृषे दृष्ट्वा भगवान्पाकशासनः ॥

2.57.9

समुच्छ्रितपताकानि पारिप्लवनिभानि च ।
------------ मेरुकूटनिभानि च ॥

2.57.10

----- ---

2.57.11

---- सधातुभिरिवाद्रिभिः ॥ 2-57-12अ----- ----------- जाम्बूनदमयद्वारैर्वैडूर्यविकृतार्गलैः ॥

2.57.13

सर्वर्तुसुखसंस्यर्शैर्महाधनपरिच्छदैः ।
रम्यसानुगृहैः शृङ्गैर्विचित्रैरिव पर्वतैः ॥

2.57.14

पञ्चवर्णसवर्णैश्च पुष्पवृष्टिसमप्रभैः ।
तुल्यैः पर्जन्यनिर्घोषैर्ह्रादैर्भोगवती यथा ॥

2.57.15

कृष्णध्वजोपवाह्यैश्च दाशार्हायुधरोहितैः ।
वृष्णिवीरमयूरैश्च स्त्रीसहस्रप्रजाकुलैः ॥

2.57.16

वासुदेवैन्द्रपर्जन्यैर्गृहमेघैरलङ्कृता ।
ददृशे द्वारकाऽतीव मेघैर्द्यैरिव संवृता ॥

2.57.17

साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा ।
ददृशुर्वासुदेवस्य चतुर्योजनमायतम् ॥

2.57.18

तावदेव सुविस्तीर्णं सुसम्पूर्णं महाधनैः ।
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः ॥

2.57.19

यं चकार महाभागस्त्वष्टा वासवचोदितः ।
प्रासादं हेमनाभस्य सर्वतो योजनायतम् ॥

2.57.20

मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनालयम् ।
रुक्मिण्याः प्रवरो वासो निर्मितः सुमहात्मना ॥

2.57.21

सत्यभामा पुनर्वेश्म सदा वसति पाण्डरम् ।
विचित्रमणिसोपानं यं विदुः शीतवानिति ॥

2.57.22

विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम् ।
व्यक्तबद्धं यथोद्देशे चतुर्दशमहाध्वजम् ॥

2.57.23

सर्वप्रासादमुख्योऽत्र जाम्बवत्या विभूषितः ।
प्रभाया जृम्भणैश्चित्रैस्त्रैलोक्यमिव भासयन् ॥

2.57.24

यस्तु पाण्डरवर्णाभस्तयोरन्तरमाश्रितः ।
विश्वकर्माकरोदेनं कैलासशिखरोपमम् ॥

2.57.25

जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः ।
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः ॥

2.57.26

तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी ।
सुकेशी नाम विख्याता केशवेन निवेशिता ॥

2.57.27

पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः ।
सुप्रभाया महाबाहो वासः स परमोच्छ्रितः ॥

2.57.28

यस्तु सूर्यप्रभो नाम प्रासादवर उच्यते ।
लक्षणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना ॥

2.57.29

वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः ।
श्वेतजाला हि यत्रैव यत्रैव च निवेशिता ॥

2.57.30

यं विदुः सर्वभूतानि हरिरित्येव भारत ।
सुमित्रविजयावासो देवर्षिगणपूजितः ॥

2.57.31

महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम् ।
यस्तु प्रासादमुख्योऽत्र विहितः सर्वशिल्पिभिः ॥

2.57.32

महिष्या वासुदेवस्य केतुमानिति विश्रुतः ।
प्रसादो विरजो नाम विरजस्को महात्मनः ॥

2.57.33

उपस्थानगृहं तात केशवस्य महात्मनः ।
यस्तु प्रासादमुख्योऽत्र यं त्वष्टा व्यदधात्स्वयम् ॥

2.57.34

योजनायतविष्कम्भं सर्वरत्नमयं विभोः ।
तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः ॥

2.57.35

सदने वासुदेवस्य मार्गसञ्जनना ध्वजाः ।
घण्टाजालानि तत्रैव सर्वेषां निवेशने ॥

2.57.36

आहृत्य यदुसिंहेन वैजयन्तच्छलो महात् ।
हंसकूटस्य यच्छ्रङ्गमिन्द्रद्युम्नसरो महत् ॥

2.57.37

षष्टितालसमुत्सेधमर्धयोजनविस्तृतम् ।
सकिन्नरमहानादं तदप्यमिततेजसः ॥

2.57.38

पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम् ।
आदित्यपथगं यत्तन्मेरोः शिखरमुत्तमम् ॥

2.57.39

जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् ।
तदप्युत्पाट्य कुच्छ्रेण स्वं निवेशनमाहृतम् ॥

2.57.40

भ्राजमानं पुरा तत्र सर्वौषधिविदीपितम् ।
यमिन्द्रभवनाच्छौरिराजहार परन्तपः ॥

2.57.41

पारिजातः स तत्रैव केशवेन निवेशितः ।
लेपहस्तशतैर्जुष्टो विमानैश्च हिरण्मयैः ॥

2.57.42

विहिता वासुदेवेन तत्रैव च महाद्रुमाः ।
पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः ॥

2.57.43

मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च ।
तासां परमकूलि शोभयन्ति महाद्रुमाः ॥

2.57.44

सालतालाश्वकर्णाश्च शतशाखाश्च रोहिणः ।
भल्लातककपित्थाश्च इन्द्रवृक्षाश्च चम्पकाः ॥

2.57.45

खादिरा मृतकाश्चैव समन्तात्परिरोपिताः ।
ये च हैमवता वृक्षा ये च नन्दनजास्तथा ॥

2.57.46

आहृत्य यदुसिंहेन तेऽपि तत्र निवेशिताः ।
रत्नपीतारुणप्रख्याः सितपुष्पाश्च पादपाः ॥

2.57.47

सर्वर्तुफलपूर्णोस्ते ते च काननसिन्धुषु ।
सहस्रपत्रपद्माश्च मन्दराश्च सहस्रशः ॥

2.57.48

अशोकाः कर्णिकाराश्च तिलका नाग मल्लिकाः ।
कुरका नागपुष्पाश्च चम्पकास्तृणपुल्लिकाः ॥

2.57.49

सप्तवर्णाः कबन्धाश्च नीपाः कुरवकास्तथा ।
केतकाः केसराश्चैव हिनतालतलताटकाः ॥

2.57.50

तालाः प्रलम्बा वकुलाः पिण्डिका बीजपूरकाः ।
द्रुतामलकखर्जूरा महिता जम्बुकास्तथा ॥

2.57.51

आम्राः पनसवृक्षाश्च चम्पकास्तिलतिन्दुकाः ।
लिकुचामृताश्चैव क्षीरिका कर्णिका तथा ॥

2.57.52

नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च ।
कदली जातमल्ली च पाटली कुमुदोत्पलाः ॥

2.57.53

नीलोत्पलकपूर्णाश्च वाप्यः कूपाः सहस्रशः ।
फुल्लाशाककपित्थाश्च तैस्तीर्त्वा बन्धुजीवकाः ॥

2.57.54

प्रियालाशोकवादिर्याः प्राचीनाश्चापि सर्वशः ।
प्रियङ्गुबदरीभिश्च यवैः स्यन्दनचन्दनैः ॥

2.57.55

शचीपीलुपलाश्चैश्च पलाशवधपिप्लैः ।
उदुम्बरैश्च बिल्वैश्च पालाशैः पारिभद्रकैः ॥

2.57.56

इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरबिल्वकैः ।
भौमगञ्जनवृक्षैश्च भल्लाभैरश्वसाह्वयैः ॥

2.57.57

सज्जैस्ताम्बूलवल्लीभिर्लवङ्गैः क्रमुकैस्तथा ।
वंशैश्च विविधैस्तत्र समन्तात्परिरोपितैः ॥

2.57.58

ये च नन्दनजा वृक्षा ये च चैत्ररथे वने ।
सर्वे ते यदुनाथेन समन्तात्परिरोपिताः ॥

2.57.59

समाहिता महानद्यः पीतलोहितवालुकाः ।
तस्मिन्गृहवरे रम्ये मणिशक्रसवालुकाः ॥

2.57.60

मत्तबर्हिणनादाश्च कोकिलाश्च मदावहाः ।
बभूवुः परमोपेताः सर्वे जगति पर्वताः ॥

2.57.61

तत्रैव गजयूथानि तत्र गोमहिषास्तथा ।
निवासाश्च कृतास्तत्र वराहा मृगपक्षिणाम् ॥

2.57.62

विश्वकर्मकृतः शैलः प्राकारस्तत्र वेश्मनि ।
व्यक्तकिष्कुशतोद्यामः सुधारससमप्रभः ॥

2.57.63

तेन ते च महाशैलाः सरितश्च सरांसि च ।
परिक्षिप्तानि वै तस्य वनान्युपवनानि च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc