भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.59

2.59.1

ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः ।
नन्दगोपस्य महिषी यशोदा लोकविश्रुता ॥

2.59.2

रेवती च महाभागा रुक्मिणी च पत्रिव्रता ।
सत्या जाम्बवती चोभे गान्धारी शिंशुमापि च ॥

2.59.3

विशोका लक्षणा चापि सुमित्रा केतुमा तथा ।
वासुदेवमहिष्योऽन्याः श्रिया सार्धं ययुस्तदा ॥

2.59.4

विभूतिं द्रष्टुमनसः केशवस्य महात्मनः ।
प्रीयमाणाः सभां जग्मुरालोकयितुमच्युतम् ॥

2.59.5

देवकी सर्वदेवीनां रोहिणी च पुरस्कृता ।
ददृशुर्देवमासीनं कृष्णं हलभृता सह ॥

2.59.6

तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च ।
अभ्यवादयतां देवौ देवकीं रामकेशवौ ॥

2.59.7

सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽधिकम् ।
देवकी देवमातेव मित्रेण वरुणेन च ॥

2.59.8

ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि ।
जाज्वल्यमाना वपुषा प्रभयाऽतीव भारत ॥

2.59.9

एकानङ्गेति यामाहुः कन्यां वै कामरूपिणीम् ।
यत्कृते सगणं कंसं जघान पुरुषोत्तमः ॥

2.59.10

ततः स भगवान्रामस्तामुपाक्रम्य भामिनाम् ।
मूर्ध्न्युपाघ्राय सव्येन परिजग्राह पाणिना ॥

2.59.11

तां च तत्रोपसम्प्राप्य प्रियामिव सखीमिमाम् ।
दक्षिणेन कराग्रेण पिरजग्राह माधवः ॥

2.59.12

ददृशुस्तां सभामध्ये भगिनीं रामकृष्णयोः ।
रुक्मपद्मशां पद्मश्रीमिवोत्तमनाभयोः ॥

2.59.13

अथाक्षतमहावष्ट्या लाजपुष्पघृतैरपि ।
वृष्णयोऽवाकिरन्प्रीताः सङ्कर्षणजनार्दनौ ॥

2.59.14

सबालाः सहवृद्धाश्च ये ज्ञातिकुलबान्धवाः ।
उपोपविविशुः प्रीता वृष्णयो मधुसूदनम् ॥

2.59.15

पूज्यमानो महाबाहुः पौराणां रतिवर्धनः ।
विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः ॥

2.59.16

रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम् ।
अनन्तरं च सत्याया जाम्बवत्याश्च भारत ॥

2.59.17

सर्वासां च यदुश्रेष्ठो गेहे गेहे विहारवान् ।
जगाम च हृषीकेशो रुक्मिण्याः सदनं पुनः ॥

2.59.18

एष तात महाबाहो विजयः शार्ङ्गधन्वनः ।
एतदर्थं च जन्माहुर्मानुषेषु महात्मनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc