भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.31

16.31.1

वनवासं गते विप्र धृतराष्ट्रे महीपतौ ।
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥

16.31.2

विदुरे चापि धर्मज्ञे धर्मराजं व्यपश्रिते ।
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥

16.31.3

यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह ।
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥

16.31.4

वनवासे च कौरव्याः कियन्तं कालमच्युतः ।
युधिष्ठिरो नरपतिर्न्यवसत्सजनस्तदा ॥

16.31.5

किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो ।
सान्तःपुरा महात्मान एतदिच्छामि वेदितुम् ॥
वैशम्पायन उवाच ।

16.31.6

वनवासगतं राजन्धृतराष्ट्रं महीपतिम् ।
युधिष्ठिरोऽभ्ययाद्द्रष्टुं ससैन्यो भ्रातृभिः सह ॥

16.31.7

प्रथमे दिवसे चैषामापो मूलं फलं तथा ।
भोजनं भूमिशय्या च तत्रासीद्भरतर्षभ ॥

16.31.8

तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः ।
विविधान्यन्नपानानि शय्याश्चैवाभजन्वने ॥

16.31.9

मासमेकं विजह्रुस्ते ससैन्यान्तःपुरो वने ।
अथ तत्रागमद्व्यासो यथोक्तं ते मयाऽनघ ॥

16.31.10

तथा च तेषां सर्वेषां कथाभिर्नृपसन्निधौ ।
व्यासन्वास्य तं राजन्नाजग्मुर्मुनयोऽपरे ॥

16.31.11

नारदः पर्वतश्चैव देवलश्च महातपाः ।
विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत ॥

16.31.12

तेषामपि यथान्यायं पूजां चक्रे महातपाः ।
धृतराष्ट्राभ्यनुज्ञातः कुरराजो युधिष्ठिरः ॥

16.31.13

निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् ।
आसनेषु च पुण्येषु बर्हिणेषु वरेषौ च ॥

16.31.14

तेषु तत्रोपविष्टेषु स तु राजा महामतिः ।
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह ॥

16.31.15

गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा ।
स्त्रियश्चान्यास्तथाऽन्याभिः सहोपविविशुस्ततः ॥

16.31.16

तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप ।
राजर्षीणां पुराणानां देवासुरविभिश्रिताः ॥

16.31.17

ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् ।
प्रोवाच वदतांश्रेष्ठः पुनरेव स तद्वचः ॥

16.31.18

प्रीयमाणो महातेजाः सर्ववेदविदांवरः ।
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् ॥

16.31.19

दह्यमानस्य शोकेन तव पुत्रकृतेन वै ।
गान्धार्याश्चैव यद्दुःखं हृदि तिष्टति नित्यदा ॥

16.31.20

कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् । यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् ।
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥

16.31.21

श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप ।
संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन ॥

16.31.22

इमे च देवगन्धर्वाः सर्वे चेमे महर्षयः ।
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् ॥

16.31.23

तदुच्यतां महाप्राज्ञ कं कामं प्रददामि ते ।
प्रवणोस्मि वरं दातुं पश्य मे तपसो बलम् ॥

16.31.24

एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना ।
मुहूर्तमिव सञ्चिन्त्य वचनायोपचक्रमे ॥

16.31.25

धन्योस्म्यनुगृहीतश्च सफलं जीवितं च मे ।
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥

16.31.26

अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः ।
ब्रह्मकल्पैर्भवद्भिर्यत्समेतोऽहं तपोधनाः ॥

16.31.27

दर्शनादेव भवतां पूतोऽहं नात्र संशयः ।
विद्यते न भयं चापि परलोके ममानघाः ॥

16.31.28

किन्तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् ।
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥

16.31.29

अपापाः पाण्डवा येन निकृताः पापबुद्धिना ।
घातिता पृथिवी येन सहया सनरद्विपा ॥

16.31.30

राजानश्च महात्मानो नानाजनपदेश्वराः ।
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥

16.31.31

ये ते पितॄश्चं दारांश्च प्राणांश्च मनसः प्रियान् ।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥

16.31.32

का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे ।
तथैव पुत्रपौत्राणां मम ये निहता युधि ॥

16.31.33

दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् ।
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥

16.31.34

मम पुत्रेण मूढेन पापेनाकृतबुद्धिना ।
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥

16.31.35

एते मदर्थे पुत्रांश्च दारांश्च मनसः प्रियान् । भोगांश्च विविधांस्तात इष्टापुर्तांस्तथैव च ।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥

16.31.36

एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् ।
न शान्तिमधिगच्छामि दुःखशोकसमाहतः ॥

16.31.37

इति मे चिन्तयानस्य पितः शान्तिर्न विद्यते ॥
वैशम्पायन उवाच ।

16.31.38

तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् ।
पुनर्नवीकृतः शोको गान्धार्या जनमेजय ॥

16.31.39

कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च ।
तासां च वरनारीणां वधूनां कौरवस्य ह ॥

16.31.40

पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् ।
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता ॥

16.31.41

लोकान्तरगतान्पुत्रानयं काङ्क्षति मानद । तच्चास्य मासं ज्ञातं भगवंस्तपसा त्वया ॥

16.31.42

षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव ।
अस्य राज्ञोहतान्पुत्राञ्शोचतो न शमो विभो ॥

16.31.43

पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः ।
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने ॥

16.31.44

लोकानन्यान्समर्थोसि स्रष्टुं सर्वांस्तपोबलात् ।
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् ॥

16.31.45

इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् ।
शोचत्यतीव सर्वासां स्नुषाणां दयिता स्नुषा ॥

16.31.46

तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी ।
सौभद्रकवधसन्तप्ता भृशं शोचति भामिनी ॥

16.31.47

इयं च भूरिश्रवसो भार्या परमसम्मता ।
भर्तृव्यसनशोकार्ता भृशं शोचति भामिनी ॥

16.31.48

यस्यास्तु श्वशुरो धीमान्बाह्लिकः स कुरूद्वहः ।
निहतः सोमदत्तश्च पित्रा सह महारणे ॥

16.31.49

श्रीमतोस्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः ।
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे ॥

16.31.50

तस्य भार्याशतमिदं दुःखशोकसमाहतम् । पुनःपुनर्वर्धयानं शोकं रोज्ञो ममैव च ।
हताहारेण महता मामुपास्ते महामुने ॥

16.31.51

ये च शूरा महात्मानः श्वशुरा मे महारथाः ।
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ॥

16.31.52

तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः ।
कुर्यात्कालमहं चेयं वधूस्तव महामुने ॥

16.31.53

इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना ।
प्रच्चन्नजातं पुत्रं तु सस्मारादित्यसन्निभम् ॥

16.31.54

तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः ।
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः ॥

16.31.55

तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् ।
तद्बूहि त्वं महाभागे यत्ते मनसि वर्तते ॥

16.31.56

श्वशुराय तत कुन्ती प्रणम्य शिरसा तदा ।
उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc