भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.32

16.32.1

भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम् ।
स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम ॥

16.32.2

तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः ।
भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् ॥

16.32.3

शौचने त्वागसस्त्यागैः शुद्धेन मनसा तथा ।
कोपस्थानेष्वपि महत्स्वकुप्यन्न कदाचन ॥

16.32.4

स प्रीतो वरदो मेऽभूत्कृतकृत्यो महामुनिः ।
अवश्यं ते ग्रहीतव्यमिति मां सोब्रवीद्वचः ॥

16.32.5

ततः शापभयाद्विप्रमवोचं पुनरेव तम् ।
एवमस्त्विति च प्राह पुनरेव स मे द्विजः ॥

16.32.6

धर्मस्य जननी भद्रे भवित्री त्वं शुभानने ।
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि ॥

16.32.7

इत्युक्त्वाऽन्तर्हितो विप्रस्ततोऽहं विस्मिताऽभवम् ।
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति ॥

16.32.8

अथ हर्म्यतलस्थाऽहं रविमुद्यन्तमीक्षती ।
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् ॥

16.32.9

स्थिताऽहं बालभावेन तत्र दोषमबुद्ध्यती ।
अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत् ॥

16.32.10

द्विधा कृत्वाऽत्मनो देहं भूमौ च गगनेऽपि च ।
तताप लोकानेकेन द्वितीयेनागमत्स माम् ॥

16.32.11

स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह ।
गम्यतामिति तं चाहं प्रणम्य सिरसाऽवदम् ॥

16.32.12

स मामुवाच तिग्मांशुर्वृथाऽह्वानं न मे क्षमम् ।
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव ॥

16.32.13

तमहं रक्षती विप्रं शापादनपकारिणम् ।
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रवम् ॥

16.32.14

ततो मां तेजसाऽविश्य मोहयित्वा च भानुमान् ।
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् ॥

16.32.15

ततोऽहमन्तर्भवने पितुश्चित्तानुरक्षिणी ।
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् ॥

16.32.16

नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु ।
कन्याऽहमभवं विप्र यथा प्राह स मामृषिः ॥

16.32.17

स मया सूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः ।
तन्मां दहति विप्रर्षे यथा सुविदितं तव ॥

16.32.18

यदि पापमपापं वा यदेतद्विवृतं मया ।
तं द्रष्टुमिच्छामि भगवन्व्यपनेतुं त्वमर्हसि ॥

16.32.19

यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ ।
तं चायं लभतां काममद्यैव मुनिसत्तम ॥

16.32.20

इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदांवरः ।
साधु सर्वमिदं भाव्यमेवमेतद्यथाऽत्थ माम् ॥

16.32.21

अपराधश्च ते नास्ति कन्याभावं गता ह्यसि ।
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै ॥

16.32.22

सन्ति देवनिकायाश्च सन्कल्पाज्जनयन्ति ये ।
वाचा दृष्ट्या तथा स्पर्शात्सन्घर्षेणेति पञ्चधा ॥

16.32.23

मनुष्यधर्मो दैवेन धर्मेण हि न दुष्यति ।
इति कुन्ति विजानीहि व्येतु ते मानसो ज्वरः ॥

16.32.24

सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि ।
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc