भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.30

16.30.1

ततः समुपविष्टेषु पाण्डवेषु महात्मसु ।
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् ॥

16.30.2

धृतराष्ट्र महाबाहो कच्चित्ते वर्तते तपः ।
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप ॥

16.30.3

कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः ।
कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ ॥

16.30.4

कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम् ।
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते ॥

16.30.5

महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी ।
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति ॥

16.30.6

कच्चित्कुन्ती च राजंस्त्वां शुश्रूषत्यनहङ्कृता ।
या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता ॥

16.30.7

कच्चिद्धर्मसुतो राजा त्वया प्रत्यभिनन्दितः ।
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्तिताः ॥

16.30.8

कच्चिन्नन्दसि दृष्ट्रैतान्कच्चिते निर्मलं मनः ।
कच्चिच्च शुद्धभावोसि जातज्ञानो नराधिप ॥

16.30.9

एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत ।
निर्वैरता महाराज सत्यमक्रोध एव च ॥

16.30.10

कच्चित्ते न च मोहोस्ति वनवासेन भारत ।
स्वदत्ते वन्यमन्नं वा उपवासोपि वा भवेत् ॥

16.30.11

विदितं चापि राजेन्द्र विदुरस्य महात्मनः ।
गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः ॥

16.30.12

माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः ।
महाबुद्धिर्महायोगी महात्मा सुमहामनाः ॥

16.30.13

बृहस्पतिर्वा देवेषु शुक्रो वाऽप्यसुरेषु च ।
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः ॥

16.30.14

तपोबलव्ययं कृत्वा सुचिरात्सम्भृतं तदा ।
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ॥

16.30.15

नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च ।
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः ॥

16.30.16

भ्राता तव महाराज देवदेवः सनातनः ।
धारणान्मनसा ध्यानाद्य धर्म कवयो विदुः ॥

16.30.17

सत्येन संवर्धयति यो दमेन शमेन च ।
अहिंसया च दानेन तपसा च सनातनः ॥

16.30.18

येन योगबलाज्जातः कुरुराजो युधिष्ठिरः ।
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना ॥

16.30.19

यथा वह्निर्यथा वायुर्यथाऽपः पृथिवी यथा ।
यथाऽकाशं तथा धर्म इह चामुत्र च स्थितः ॥

16.30.20

सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम् ।
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः ॥

16.30.21

यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः ।
स एष राजन्दृश्यस्ते माण्डवः प्रेष्यवत्स्थितः ॥

16.30.22

प्रविष्टः स महात्मानं भ्राता ते बुद्धिसम्मतः ।
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः ॥

16.30.23

त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ ।
संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रक ॥

16.30.24

न कृतं यैः पुरा कैश्चित्कर्म लोके महर्षिभिः ।
आश्चर्यभूतं तपसः फलं तद्दर्शयामि वः ॥

16.30.25

किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम् ।
द्रष्ट्रुं स्प्रष्टुमथ श्रोतुं तत्कर्तास्मि तवानघ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc