भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.29

16.29.1

ततस्तु राजन्नेतेषामाश्रमे पुण्यकर्मणाम् ।
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी ॥

16.29.2

ततस्तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः ।
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः ॥

16.29.3

पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा ।
उत्सृज्य तु महार्हाणि शयनानि नराधिप ॥

16.29.4

यदाहारोऽभकवद्राजा धृतराष्ट्रो महामनाः ।
तदाहारा नृवींरास्ते न्यवसंस्तां निशां तदा ॥

16.29.5

व्यतीतायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियः ।
भ्रातृभिः सहितो राजा ददर्शाश्रममण्डलम् ॥

16.29.6

सान्तः पुरपरीवारः सभृत्यः सपुरोहितः ।
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥

16.29.7

ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः ।
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ॥

16.29.8

वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि ।
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणस्य ताः ॥

16.29.9

मृगयूथैरनुद्विग्नैस्तत्रतत्र समाश्रितैः ।
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥

16.29.10

केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः ।
कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः ॥

16.29.11

प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम् ।
फलमूलसमाहारैर्महद्भिश्चोपशोभितम् ॥

16.29.12

ततः स राजा प्रददौ तापसार्थमुपाहृतान् ।
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ॥

16.29.13

अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः ।
कमण्डलूंश्चि स्थालीश्च पिठराणि च भारत ॥

16.29.14

भाजनानि च लौहानि पात्रीश्च विविधा नृप ।
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ॥

16.29.15

एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् ।
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ॥

16.29.16

कृताह्निकं च राजानं धृतराष्ट्रं महीपतिम् ।
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥

16.29.17

मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् ।
कुन्तीं ददर्श धर्मात्मा शिष्टाचारसमन्विताम् ॥

16.29.18

स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः ।
निषीदेत्यभ्यनुज्ञातो वृस्यामुपविवेश ह ॥

16.29.19

भीमसेनादयश्चैव पाण्डव भरतर्षभ ।
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया ॥

16.29.20

स तैः परिवृतो राजा शुशुभेऽतीव कौरवः ।
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥

16.29.21

तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः ।
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ॥

16.29.22

व्यासश्च भगवान्विप्रो देवर्षिगणसेवितः ।
वृतः शिष्यैर्महातेजा दर्शयामास पार्थिवम् ॥

16.29.23

ततः स राजा कौरव्यः कुन्तीपुत्रश्च धर्मराट् ।
भीमसेनादयश्चैव प्रत्युत्थायाभ्यवादयन् ॥

16.29.24

समागतस्ततो व्यासः शतयूपादिभिर्वृतः ।
धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥

16.29.25

वरं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् ।
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥

16.29.26

ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः ।
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc