भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.28

16.28.1

युधिष्ठिर महाबाहो कच्चित्वं कुशली ह्यसि ।
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ॥

16.28.2

ये च त्वामनुजीवन्ति कच्चित्तेऽपि निरामयाः ।
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप ॥

16.28.3

कच्चित्तेऽपि निरातङ्का वसन्ति विषये तव ।
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् ॥

16.28.4

कच्चिन्न्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते । अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः ।
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ॥

16.28.5

कच्चित्ते परितुष्यन्ति शीलेनि भरतर्षभ ।
शत्रवोपि कुतः पौरा भृत्या वा स्वजनोपि वा ॥

16.28.6

कच्चिद्यजसकि राजेन्द्र श्रद्धावान्पितृदेवताः ।
अतिथीनन्नपानेनि कच्चिदर्चसि भारत ॥

16.28.7

कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव ।
क्षत्रिया वैश्यवर्णा वा शूद्रा वाऽपि कुटुम्बिनः ॥

16.28.8

कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते ।
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ ॥

16.28.9

कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् ।
यथोचितं महाराज यशसा नावसीदति ॥
वैशण्पायन उवाच ।

16.28.10

इत्येवादिनं तं स न्यायवित्प्रत्यभाषत ।
कुशलप्रश्नसंयुक्तं कुशलो वाक्यमब्रवीत् ॥
युधिष्ठिर उवाच ।

16.28.11

अपि ते वर्धते राजंस्पपो मन्दः श्रमश्च ते ॥

16.28.12

अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा ।
अथास्याः सफलो राजन्वनवासो भविष्यति ॥

16.28.13

इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता ।
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति ॥

16.28.14

हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् ।
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ॥

16.28.15

क्व चासौ विदुरो राजन्नेमं पश्यामहे वयम् ।
सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थिरः ॥
वैशम्पायन उवाच ।

16.28.16

इत्युक्तः प्रत्युवाचैनं धृतराष्ट्रो जनाधिपम् ।
कुशली विदुरः पुत्र तपो घोरं समाश्रितः ॥

16.28.17

वायुभक्षो निराहारः कृशो धमनिसन्ततः ।
कजाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् ॥

16.28.18

इत्येवं ब्रुवतस्तस्य जटी वीटामुखः कृशः ।
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ॥

16.28.19

दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः । कविदुरस्त्वेष धर्मात्मा जनं दृष्ट्वा निवर्तते ॥

16.28.20

निवर्तमानं सहसा जनं दृष्ट्वाऽश्रमं प्रति । तमन्वधावन्नृपतिरेक एव युधिष्ठिरः ।
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् ॥

16.28.21

भोभो विदुर राजाऽहं दयितस्ते युधिष्ठिरः ।
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ॥

16.28.22

ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः ।
विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे ॥

16.28.23

तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् ।
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः ॥

16.28.24

युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाऽग्रतः स्थितः ।
विदुरस्याश्रमे राजा स च प्रत्याह सञ्ज्ञया ॥

16.28.25

ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत ।
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः ॥

16.28.26

विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह ।
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च ॥

16.28.27

स योगबलमास्थाय विवेश नृपतेस्तनुम् ।
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव ॥

16.28.28

विदुरस्य शरीरं तु तथैव स्तब्धलोचनम् ।
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥

16.28.29

बलवन्तं तथाऽत्मानं मेने बहुगुणं तदा ।
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ॥

16.28.30

पौराणमात्मनः सर्वं भविष्यं च विशाम्पते ।
योगधर्मं महातेजा व्यासेन कथिनं यथा ॥

16.28.31

धर्मराजश्च तत्रैनं सञ्चस्कारयिषुस्तदा ।
दग्धुकामोऽभवद्विद्वानथ वागभ्यभाषत ॥

16.28.32

भोभो राजन्न दग्धव्यमेतद्विदुरसञ्ज्ञकम् ।
कलेबरमिहैवं ते धर्म एष सनातनः ॥

16.28.33

लोको वैकर्तनो नाम भविष्यत्यस्य भारत ।
यतिधर्ममवाप्तोसौ नैष शोच्यः परन्तप ॥

16.28.34

इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः ।
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ॥

16.28.35

ततः स राजा धृतिमान्स च सर्वो जनस्तदा ।
भीमसेनादयश्चैव परं विस्मियमागताः ॥

16.28.36

तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् ।
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ॥

16.28.37

यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः ।
इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम् ॥

16.28.38

फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः । ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः ।
तां रात्रिमवसन्सर्वे फलमूलजलाशनाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc