भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.27

16.27.1

स तैः सह नरव्याध्रैर्भ्रातृभिर्भरतर्षभ ।
राजा रुचिरपद्माक्षैरासाञ्चक्रे तदाश्रमे ॥

16.27.2

तापसैश्च महाभागैर्नानादेशसमागतैः ।
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥

16.27.3

ते ब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः ।
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी ॥

16.27.4

तानाचख्यौ तदा सूतस्तेषां नाम प्रधानतः ।
सञ्जयो द्रौपदीं चैव सर्वाश्चान्या कुरुस्त्रियः ॥
सञ्जय उवाच ।

16.27.5

य एष जाम्बूनदशुद्धगौर- स्तनुर्महासिंह इव प्रवृद्धः ।
प्रचण्डघोणः पृथुदीर्घनेत्र- स्ताम्रायताक्षः कुरुराज एषः ॥

16.27.6

अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः ।
पृथ्वायतांसः पृथुदीर्घबाहु- र्वृकोदरः पश्यत पश्यतेमम् ॥

16.27.7

यस्त्वेष पार्श्वेऽस्य महाधनुष्मा- ञ्श्यामो युवा वारणयूथपाभः ।
सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः ॥

16.27.8

कुन्तीसमीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ ।
मनुष्यलोके सकले समोस्ति ययोर्न रूपे न बले न शीले ॥

16.27.9

इयं पुनः पद्मदलायताक्षी मध्यं वयः किञ्चिदिव स्पशन्ती ।
नीलोत्पलाभा पुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥

16.27.10

अस्यास्तु पार्श्वे कनकोपमत्व- गेषा स्थिता मूर्तिमतीव गौरी ।
सत्ये स्थिता सा भगिनी द्विजाग्र्या- श्चक्रायुधस्याप्रतिमस्य तस्य ॥

16.27.11

इयं च जाम्बूनदशुद्धगौरी पार्थस्य भार्या भुजगेन्द्रकन्या ।
चित्राङ्गदा चैव नरेन्द्रकन्या यैषा सवर्णार्द्रमधूकपुष्पैः ॥

16.27.12

इयं स्वसा राजचमूपतेश्च प्रवृद्धनीलोत्पलदामवर्णा ।
पस्पर्ध कृष्णेन सदा नृपो यो वृकोदरस्यैष परिग्रहोऽग्र्यः ॥

16.27.13

इयं च राज्ञो मगधाधिपस्य सुता जरासन्ध इति श्रुतस्य ।
यवीयसो माद्रवतीसुतस्य भार्या मता चम्पकदामगौरी ॥

16.27.14

इन्दीवरश्यामतनुः स्थिता तु यैषा पराऽसन्नतरोर्लतेव ।
भार्या मता माद्रवतीसुतस्य ज्येष्ठस्य सेयं कमलायताक्षी ॥

16.27.15

इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुता सपुत्रा ।
भार्याऽभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः ॥

16.27.16

एतास्तु सीमन्तशिरोरुहा याः शुक्लोत्तरीया नरराजपत्न्यः ।
राज्ञोस्य वृद्धस्य परंशताख्याः स्नुषा नृवीराहतपुत्रनाथाः ॥

16.27.17

एकता यथामुख्यमुदाहृता वो ब्राह्मण्यभावादृजुबुद्धिसत्वात् ।
सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्रपत्न्यः सुविशुद्धसत्वाः । सर्वे भवन्तोपि तपोबलाग्र्याः क्षान्ताश्च दान्ताश्च कुलोद्भवाश्च ॥
वैशम्पायन उवाच ।

16.27.18

एवं स राजा कुरुवृद्धवर्यः समागतस्तैर्नरदेवपुत्रैः ।
पप्रच्छ सर्वं कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु ॥

16.27.19

योधेषु चाप्याश्रममण्डलं त- न्मत्वा निविष्टेषु विमुच्य पत्रम् ।
स्त्रीवृद्धबाले च सुसन्निविष्टे यथार्हतस्तान्कुशलान्यपृच्छत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc