भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.26

16.26.1

ततस्ते पाण्डवा दूरादवतीर्य पदातयः ।
अभिजग्मुर्नरपतेराश्रमं विनयानताः ॥

16.26.2

स च योधजनः सर्वो ये च राष्ट्रनिवासिनः ।
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा ॥

16.26.3

आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः ।
शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ॥

16.26.4

ततस्तत्र समाजग्मुस्तापसा नियतव्रताः ।
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः ॥

16.26.5

तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् ।
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः ॥

16.26.6

ते तमूचुस्ततो वाक्यं यमुनामवगाहितुम् ।
पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो ॥

16.26.7

तैराख्यातेन मार्गेण ततस्ते जग्मुरञ्जसा ।
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः ॥

16.26.8

ततस्ते सत्वरा जग्मुः वितुर्दर्शनकाङ्क्षिणः ।
सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा ॥

16.26.9

सुस्वरं रुरुदे धीमान्मातुः पादावुपस्पृशन् ।
सा च बाष्पाकुलमुखी ददर्शक दयितं सुतम् ॥

16.26.10

बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम् ।
गान्धार्याः कथयामास सहद्रेवमुपस्थितम् ॥

16.26.11

अनन्तरं च राजानं भीमसेनमथार्जुनम् ।
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ॥

16.26.12

सा ह्यग्रे गच्छति तयोर्दपत्योर्हतपुत्रयोः । कर्षन्ती तौ ततस्ते तां दृष्ट्वा सन्न्यपतन्भुवि ।
तयोस्तु पादयो राजन्न्यपतन्हतपुत्रयोः ॥

16.26.13

राजा तान्स्वरयोगेन स्पर्शेन च महामनाः ।
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः ॥

16.26.14

ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् ।
उपतस्थुर्महात्मानो मातरं च यथाविधि ॥

16.26.15

सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा ।
पाण्डवा लब्धसञ्ज्ञास्ते मात्रा चाश्वासिताः पुनः ॥

16.26.16

तथा नार्यो नृसिंहानां सोऽवरोधजनस्तदा ।
पौरजानपदाश्चैव ददृशुस्तं जनाधिपम् ॥

16.26.17

निवेदयामास तदा जनं तन्नामगोत्रतः ।
युधिष्ठिरो नरपतिः स चैनं प्रत्यपूजयत् ॥

16.26.18

स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः ।
राजाऽत्मानं गृहगतं पुरेवि गजसाह्वये ॥

16.26.19

अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः ।
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ॥

16.26.20

ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् ।
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc