भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 15.7

15.7.1

तं प्रविष्टं महात्मानं वीरमानकदुन्दुभिः ।
पुत्रशोकेन सन्तप्तो ददर्श कुरुपुङ्गवम् ॥

15.7.2

तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः ।
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥

15.7.3

तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः ।
स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन् ॥

15.7.4

समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः । रुरोदाथ स्मरञ्शौरिं विललाप सुविह्वलः ।
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रान्स सखीनपि ॥
वसुदेव उवाच ।

15.7.5

यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन ।
तान्सर्वान्नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥

15.7.6

यो तावर्जुनशिष्यौ ते प्रियौ बहुमतौ सदा ।
तयोरपनयात्पार्थ वृष्णयो निधनं गताः ॥

15.7.7

यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ ।
प्रद्युम्नो युयुधानश्चि कथनन्कत्थसे च यौ ॥

15.7.8

तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ ।
तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय ॥

15.7.9

न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन ।
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ॥

15.7.10

केशिनं यस्तु कंसं च विक्रम्यि हतवान्प्रभुः ।
विदेहमकरोत्पार्थं चैद्यं च बलगर्वितम् ॥

15.7.11

नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् ।
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ॥

15.7.12

प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् ।
सोभ्युपेक्षितवानेवमनयान्मधुसूदनः ॥

15.7.13

त्वं हि तं नारदश्चैव मुनयश्च सनातनम् ।
गोविन्दमनघं देवमभिजानीध्वमच्युतम् ॥

15.7.14

प्रत्यपश्यच्च स विभुर्ज्ञातिक्षयमधोक्षजः ।
समुपेक्षितवान्नित्यं स्वयं स मम पुत्रकः ॥

15.7.15

गान्धार्या वचनं यत्तदृषीणां च परन्तप ।
तन्नूनमन्यथा कर्तुं नैच्छत्स जगतः प्रभुः ॥

15.7.16

प्रत्यक्षं भवतश्चापि तव पौत्रः परन्तप । अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा ।
इमांस्तु नैच्छत्स्वान्ज्ञातीन्रक्षितुं च सखा तव ॥

15.7.17

ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखींस्तथा ।
शयानान्निहतान्दृष्ट्वा कृष्णो मामब्रवीदिदम् ॥

15.7.18

सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ । आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् ।
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् ॥

15.7.19

स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो ।
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ॥

15.7.20

योऽहं तमर्जुनं विद्धि योऽर्जुनः सोहमेव तु ।
यद्ब्रूयात्तत्तथा कार्यमिति बुद्ध्यस्व भारत ॥

15.7.21

स स्त्रीषु प्राप्तकालासु पाण्डवो बालकेषु च ।
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वद्गेहिकम् ॥

15.7.22

इमां च नगरीं सद्यः प्रतियाते धनञ्जये ।
प्राकारट्टालकोपेतां समुद्रः प्लावयिष्यति ॥

15.7.23

अहं देशे तु कस्मिंश्चित्पुण्ये नियममास्थितः ।
कालं काङ्क्षे सद्य एव रामेण सहितो वने ॥

15.7.24

एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः ।
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ॥

15.7.25

सोहं तौ च महात्मानौ चिन्तयन्रामकेशवौ ।
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ॥

15.7.26

न मोक्ष्येन च जीविष्ये दिष्ट्या प्राप्तोसि पाण्डव ।
यदुक्तं पार्थं कृष्णेन तत्सर्वमखिलं कुरु ॥

15.7.27

एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि ।
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc