भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 15.8

15.8.1

एवमुक्तः स बीभत्सुर्मातुलेनि परन्तप ।
दुर्मना दीनवदनो वसुदेवमुवाच ह ॥

15.8.2

नाहं वृष्णिप्रवीरेण बन्धुभिश्चैव मातुल ।
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥

15.8.3

राजा च भीमसेनश्च सहदेवश्च पाण्डवः ।
नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥

15.8.4

राज्ञः सन्क्रमणे चापि कामोऽयं नित्यमेव हि ।
तमिमं विद्धि सम्प्राप्तं कालं कालविदांवर ॥

15.8.5

सर्वथा वृष्णिदारांस्तु बालं वृद्धं तथैव च ।
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिन्दम ॥

15.8.6

इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जयः ।
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥

15.8.7

इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् ।
प्रविवेशार्जुनः शूरः शोचमानो महाभुजः ॥

15.8.8

तमासनगतं तत्र सर्वाः प्रकृतयस्तथा ।
ब्राह्मणा नागरास्तत्र परिवार्योपतस्थिरे ॥

15.8.9

तान्दीनमनसः सर्वान्विमूढान्गतचेतसः ।
उवाचेदं वचः काले पार्थो दीनतरस्तथा ॥

15.8.10

शक्रप्रस्थमहं नेष्ये पृष्णन्धकजनं स्वयम् ।
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ॥

15.8.11

सज्जीकुरुत यानानि रत्नानि विविधानि च ।
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥

15.8.12

सप्तमे दिवसे चैव रवौ विमल उद्गते ।
बहिर्वत्स्यामहे सर्वे सज्जीभावत माचिरम् ॥

15.8.13

इत्युक्तास्तेन ते सर्वे पार्थेनाक्लिष्टकर्मणा ।
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ॥

15.8.14

तां रात्रिमवसत्पार्थः केशवस्य निवेशने ।
महता शोकमोहेन सहसाऽभिपरिप्लुतः ॥

15.8.15

श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् ।
युक्त्वाऽत्मानं महातेजा जगाम गतिमुत्तमां ॥

15.8.16

ततः शब्दो महानासीद्वसुदेवनिवेशने ।
दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥

15.8.17

प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः । उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्तकरुणं स्त्रियः ।

15.8.18

तं देवकी च भद्रा च रोहिणी मदिरा तथा ।
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥

15.8.19

ततः शौरिं नृयुक्तेन बहुमूल्येन भारत ।
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ॥

15.8.20

तमन्वयुस्तत्रतत्रं दुःखसोकसमन्विताः ।
द्वारकावासिनः सर्वे पौरजानपदा हिताः ॥

15.8.21

तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः ।
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥

15.8.22

अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः ॥
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥

15.8.23

यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः ।
तत्रैनमुपसन्कल्प्य वितृमेधं प्रचक्रिरे ॥

15.8.24

तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः ।
ततोन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ॥

15.8.25

तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः ।
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ॥

15.8.26

ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः ।
सामगानां च निर्घोषो नराणां रुदतामपि ॥

15.8.27

ततो वज्रप्रधानास्ते वृष्ण्यन्धककुमारकाः । सर्वे चैवोदकं चक्रुः स्त्रियश्चैव महात्मनः ।

15.8.28

अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः ।
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ॥

15.8.29

स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः ।
बभूवातीव कौरव्यः प्राप्तकालं चकार ह ॥

15.8.30

यथाप्रधानतश्चैव चक्रे सर्वास्तथा क्रियाः ।
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥

15.8.31

ततो भगवतो देहं दृष्ट्वा शिष्यः प्रलप्य च । स्मृत्वा तद्वचनं सर्वं मोहशोकोपबृंहितः ॥

15.8.32

ततः शरीरे रामस्य वासुदेवस्य चोभयोः ।
अन्वीक्ष्य दाहयामास पुरुषैराप्तकारिभिः ॥

15.8.33

स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः ।
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ॥

15.8.34

अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ।
स्त्रियस्ता वृष्णिवीराणां रुदन्त्यः शोककर्शिताः ॥

15.8.35

अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जयम् ।
भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये ॥

15.8.36

वीरहीना वृद्धबालाः पौरजानपदास्तथा ।
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥

15.8.37

कुञ्जरैश्च गजारोहा ययुः शैलनिर्भस्तथा ।
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥

15.8.38

पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ॥

15.8.39

दश षट् च सहस्राणि वासुदेवावरोधनम् ।
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ॥

15.8.40

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥

15.8.41

तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् ।
उवाह रथिनांश्रेष्ठः पार्थः परपुरञ्जयः ॥

15.8.42

निर्याते तु जने तस्मिन्सागरो मकरालयः ।
द्वारकां रत्नसम्पूर्णां जलेनाप्लावयत्तदा ॥

15.8.43

यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत ।
तत्तत्सम्प्लावयामास सलिलेन स सागरः ॥

15.8.44

तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः ।
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥

15.8.45

काननेषु च रम्येषु पर्वतेषु नदीषु च ।
निवसन्नानयामास वृष्णिदारान्धनञ्जयः ॥

15.8.46

स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् ।
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥

15.8.47

ततो लोभः समभवद्दस्यूनां निहतेश्वराः ।
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥

15.8.48

ततस्ते पापकर्माणो लोभोपहतचेतसः ।
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ॥

15.8.49

अयमेकोऽर्जुनो धन्वी वृद्धबालं हतेश्वरम् ।
नयत्यस्मानतिक्रम्य् योधाश्चेमे हतौजसः ॥

15.8.50

ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः ।
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥

15.8.51

महता सिंहनादेन त्रासयन्तः पृथग्जनम् ।
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ॥

15.8.52

ततो निवृत्तः कौन्तेयः सहसा सपदानुगः ।
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥

15.8.53

निवर्तध्वमधर्मज्ञा यदि जीवितुमिच्छथ ।
इदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ॥

15.8.54

तथोक्तास्तेन वीरेणि कदर्तीकृत्य तद्वचः ।
अभिपेतुर्जनं मूढा वार्यमाणाः पुनःपुनः ॥

15.8.55

ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् ।
कआरोपयितुमारेभे यत्नादिव कथञ्चन ॥

15.8.56

चकार सज्यं कृच्छ्रेणि सम्भ्रमे तुमुले सति ।
चिन्तयामास शस्त्राणि न च सस्मार तान्यपि ॥

15.8.57

वैकृतं तन्महद्दृष्ट्वा भुजवीर्य तथा युधि ।
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ॥

15.8.58

वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः ।
न शेकुरावर्तयितुं ह्रियमाणं स्वकं धनम् ॥

15.8.59

कलत्रस्य बहुत्वाद्धि सम्पतन्सु ततस्ततः ।
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥

15.8.60

मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः ।
समन्ततोवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥

15.8.61

ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनञ्जयः ।
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सहस्रशः ॥

15.8.62

क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः ।
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥

15.8.63

स शरक्षयमासाद्य दुःखशोकसमाहतः ।
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ॥

15.8.64

[प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः । जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ॥ ]

15.8.65

धनञ्जयस्तु दैवं तन्मनसाऽचिन्तयत्प्रभुः ।
दुःखसोकसमाविष्टो निःश्वासपरमोऽभवत् ॥

15.8.66

अस्त्राणां च प्रणाशेन बाहुवीर्यस्य च क्षयात् ।
धनुषश्चाविधेयत्वाच्छराणां सन्क्षयेण च ॥

15.8.67

बभूव विमनाः पार्थो दैवमित्युनुचिन्तयन् ।
न्यवर्तत ततो राजन्नेदमस्तीति चिन्तयन् ॥

15.8.68

ततः शेषं समादाय कलत्रस्य महामतिः ।
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ॥

15.8.69

युधिष्ठिरस्यानुमते वंशकर्तॄन्कुमारकान् ।
न्यवेशयत कौरव्यस्तत्रतत्र धनञ्जयः ॥

15.8.70

हार्दिक्यतनयं पार्थो नगरे मृत्तिकावते । अश्वपतिं खाण्डवारण्ये राज्ये तत्र न्येवशयत् ।
भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥

15.8.71

तथा वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः ।
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ॥

15.8.72

यौयुधानिं सरस्वत्याः पुत्रं सात्यकिनः प्रियम् ।
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥

15.8.73

इन्द्रप्रस्थे ददौ राज्यं व्रज्राय परवीरहा ।
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ॥

15.8.74

रुक्मिणी त्वथ गान्धारी शैब्दा हैमवतीत्यपि ।
देवी जीम्बवती चैव विविशुर्जातवेदसम् ॥

15.8.75

सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः ।
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ॥

15.8.76

द्वारकावासिनो ये पुरुषाः पार्थमभ्ययुः ।
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ॥

15.8.77

स तत्कृत्वा प्राप्तकालं बाष्णेणापिहितोऽर्जुनः ।
कृष्णद्वैपायनं व्यासं ददर्शासीनमाश्रमे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc