भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 15.6

15.6.1

दारुकोपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् ।
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥

15.6.2

श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजान्धककौकुरान् ।
पाण्डवाः शोकसन्तप्ता वित्रस्तमनसोऽभवन् ॥

15.6.3

ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा ।
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥

15.6.4

स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो ।
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥

15.6.5

याः स्म ता लोकनाथेन नाथवत्यः पुराऽभवन् ।
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥

15.6.6

षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहाः ।
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥

15.6.7

तास्तु दृष्ट्वैव कौरव्यो बाष्पेणापिहितेक्षणः ।
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोभिवीक्षितुम् ॥

15.6.8

स तां वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् ।
वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥

15.6.9

रत्नशैवलसन्घातां वज्रप्राकारमालिनीम् ।
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥

15.6.10

रामकृष्णमहाग्राहां द्वारकां सरितं तदा ।
कालपाशग्रहां भीमां नदीं वैतरणीमिव ॥

15.6.11

ददर्श वासविर्धीमान्विहीनां वृष्णिपुङ्गवैः । गतश्रियं विरानन्दां पद्मिनीं शिशिरे यथा ।

15.6.12

तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः ।
सस्वनं बाष्पमुत्सृज्य निपात महीतले ॥

15.6.13

सात्राजिती ततः सत्या रुक्मिणी च विशाम्पते ।
अभिपत्य प्ररुरुदुः परिवार्य धनञ्जयम् ॥

15.6.14

ततस्तं काञ्चने पीठे समुत्ताप्योपवेश्य च ।
अभिनन्द्य महात्मानं परिवार्योपतस्थिरे ॥

15.6.15

ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः ।
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc