भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 15.3

15.3.1

एवं प्रयतमानानां वृष्णीनामन्धकैः सह ।
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ॥

15.3.2

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ।
गृहाण्यावेक्ष्य वृष्णीनां नादृश्यतं पुनः क्वचित् ॥

15.3.3

तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः ।
न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा ॥

15.3.4

उत्पेदिरे महावाता दारुणाश्च दिनेदिने ।
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ॥

15.3.5

विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा ।
केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि ॥

15.3.6

चीचीकूचीति वाशन्ति शारिका वृष्णिवेश्मसु ।
नोपशाम्यति शब्दस्य सदिवारात्रमेव हि ॥

15.3.7

अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा ।
अजाः शिवानां विरुतमन्वकुर्वत भारत ॥

15.3.8

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ।
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ॥

15.3.9

व्यजायन्त खरा गोषु करभाश्वतरीषु च ।
शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च ॥

15.3.10

नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा ।
प्रार्दयन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥

15.3.11

गुरूंश्चाप्यवमन्यन्ते न तु रामजनार्दनौ ।
पत्न्यः पतीनुच्चरन्ति पत्नीश्चक पतयस्तथा ॥

15.3.12

विभावसुः प्रज्वलितो वामं विपरिवर्तते ।
नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक् ॥

15.3.13

उदयास्तमये नित्यं पुर्यां तस्यां दिवाकरः ।
व्यदृश्यतासकृत्पुम्भिः कबन्धैः परिवारितः ॥

15.3.14

महानसेषु सिद्धेषु संस्कृतेऽतीवि भारत ।
आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः ॥

15.3.15

पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु ।
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन ॥

15.3.16

परस्परं च नक्षत्रं हन्यमानं पुनःपुनः ॥
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन ॥

15.3.17

नदन्तं पाञ्चिजन्यं च वृष्णन्धकनिवेशने ।
समन्तात्पर्यवाशन्त रासभा दारुणस्वराः ॥

15.3.18

एवं पश्यन्हृषिकेशः सम्प्राप्तं कालपर्ययम् ।
त्रयोदश्याममावास्यां तान्दृष्ट्वा प्राब्रवीदिदम् ॥

15.3.19

चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः ।
प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षंयाय नः ॥

15.3.20

विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः ।
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ॥

15.3.21

पुत्रशोकाभिसन्तप्ता गान्धारी हतबान्धवा ।
यदनुव्याजहारार्ता तदिदं समुपागमत् ॥

15.3.22

इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः ।
पुरा व्यूढेष्वनीकेषु दृष्ट्वेत्पातान्सुदारुणान् ॥

15.3.23

इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत् ।
आज्ञापयामास तदा तीर्थयात्रामरिन्दमः ॥

15.3.24

अघोषयन्त पुरुषास्तत्र केशवशासनात् ।
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc