भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 15.4

15.4.1

काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि ।
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥

15.4.2

अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु ।
वृष्ण्यन्धकानखादन्त स्वप्ने गृध्रा भयानकाः ॥

15.4.3

अलङ्काराश्च च्छत्रं च ध्वजाश्च कवचानि च ।
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥

15.4.4

तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयोमयम् ।
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥

15.4.5

युक्तं रथं दिव्यमादित्यवर्णं हयाऽहरन्पश्यतो दारुकस्य ।
ते सागरस्योपरिष्टादगच्छ- न्मनोजवाश्चतुरो वाजिमुख्याः ॥

15.4.6

तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्धनाभ्याम् ।
उच्चैर्जह्रुरप्सरसश्च दिव्या देवा ऊचुर्गम्यतां तीर्थयात्राः ॥

15.4.7

भगवद्दर्शनस्पर्शस्नेहैर्विततभोगिनः । दिवः प्रवेशानार्थं ते विमानैर्दिवमाययुः ॥

15.4.8

ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः ।
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥

15.4.9

ततो मनोहरा हृष्टाःक पेयं मांसं मधूनि च ।
बहु नानाविधं चक्रुस्त्वरिताः कालचोदिताः ॥

15.4.10

ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः ।
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥

15.4.11

ततः प्रभासे न्यवसन्यथोद्दिष्टं यथागृहम् ।
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥

15.4.12

निविष्टांस्तान्निशाम्याथ समुद्रान्ते स योगवित् ।
जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ॥

15.4.13

तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् ।
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥

15.4.14

ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः ।
अपश्यन्नुद्धवं यान्तं तेजसाऽवृत्य रोदसी ॥

15.4.15

ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् ।
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥

15.4.16

ततस्तूर्यशताकीर्णं नटनर्तकसन्कुलम् ।
अवर्तत महापानं प्रभासे तिग्मतेजसाम् ॥

15.4.17

कृष्णस्य सन्निधौ रामः सहितः कृतवर्मणा ।
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥

15.4.18

ततः परिषदो मध्ये युयुधानो मदोत्कटः ।
अब्रवीत्कृतवर्माणमवहास्यावमत्य च ॥

15.4.19

कः क्षत्रियो हन्यमानः सुप्तान्हन्यान्मृतानिव ।
तन्न मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥

15.4.20

इत्युक्ते युयुधानेन पूजयामास तद्वचः ।
प्रद्युम्नो रथिनांश्रेष्ठो हार्दिक्यमवमत्य व ॥

15.4.21

ततः परमसन्क्रुद्धः कृतवर्मा तमब्रवीत् ।
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥

15.4.22

भूरिश्रवाश्छिन्नबाहुर्युर्द्धे प्रायगतस्त्वया ।
वधेन सुनृशंसेन कथं वीरेण पातितः ॥

15.4.23

इति तस्य वचः श्रुत्वा केशवः परवीरहा ।
तिर्यक्सरोषया दृष्ट्या वीक्षाञ्चक्रे स मन्युमान् ॥

15.4.24

मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् ।
तां कथां श्रावयामास सात्यकिर्मधुसूदनम् ॥

15.4.25

तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा ।
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥

15.4.26

तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् ।

15.4.27

पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ।
एष गच्छामि पदवीं सत्येन च तथा शपे ॥

15.4.28

सौप्तिके ये च निहताः सुप्ता येन दुरात्मना ।
द्रोणपुत्रसहायेन पापेन कृतवर्मणा ॥

15.4.29

समाप्तमायुरस्याद्य यशश्चैव सुमध्यते । इत्येवमुक्त्वा खङ्गेन केशवस्य समीपतः ।
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥

15.4.30

तथाऽन्यानपि निघ्नन्तं युयुधानं समन्ततः ।
अभ्यधावद्धृषीकेशो विनिवारयितुं तदा ॥

15.4.31

एकीभूतास्ततः सर्वे कालपर्यायचोदिताः ।
भोजान्धका महाराज शैनेयं पर्यवारयन् ॥

15.4.32

तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः ।
न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥

15.4.33

ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा ।
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ॥

15.4.34

हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः ।
तदनन्तरमागच्छन्मोचयिष्यञ्शिनेः सुतम् ॥

15.4.35

स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह । व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ ।
बहुत्वान्निहतौ तत्र उभौ कुष्णस्य पश्यतः ॥

15.4.36

हतं दृष्ट्वा च शैनेयं पुत्रं च यदुनन्दनः ।
एरकाणां ततो मुष्टिं कोपाज्जग्राह केशवः ॥

15.4.37

तदभून्मुसलं घोरं वज्रकल्पमयोमयम् ।
जघान कुष्णस्तांस्तेनि येये प्रमुखतोऽभवन् ॥

15.4.38

ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा ।
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥

15.4.39

यस्तेषामेरकां कश्चिज्जग्राह कुपितो नृपः ।
वज्रभूतेव सा राजन्नदृश्यत तदा विभो ॥

15.4.40

तृणं च मुसलीभूतमपि तत्र व्यदृश्यत ।
ब्रह्मदण्डकृतं सर्वमिति तद्विद्वि पार्थिव ॥

15.4.41

आविध्याविध्य ते राजन्प्रहरन्ति स्म तैस्तृणैः ।
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ॥

15.4.42

अवधीत्पितरं पुत्रः पिता पुत्रं च भारत ।
मत्ताः परिपतन्ति स्म योधयन्तः परस्परम् ॥

15.4.43

पतङ्गा इव चाग्नौ ते निपेतुः कुकुरान्धकाः ।
नासीत्पलायने बुद्धिर्वधअयमानस्य कस्यचित् ॥

15.4.44

तत्रापश्यन्महाबाहुर्जानन्कालस्य पर्ययम् ।
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥

15.4.45

साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः ।
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ॥

15.4.46

गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः ।
स निःशेषं तदा चक्रे शार्ङ्गचक्रगन्दाधरः ॥

15.4.47

तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः ।
दारुकश्चैव दाशार्हमूवतुर्यन्निबोध तत् ॥

15.4.48

भगवन्निहताः सर्वे त्वया भूयिष्ठशो नराः ।
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc