महाभारत · अध्याय 15.2
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ।
पश्यतो वासुदेवस्य भोजश्चैवक महारथाः ॥
वैशम्पायन उवाच ।
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् ।
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ॥
जनमेजय उवाच ।
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः ।
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ॥
वैशम्पायन उवाच ।
विश्वामित्रं च कण्वं च नारदं च तपोधनम् ।
सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान् ॥
ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा ।
अब्रुवन्नुपसङ्गम्य् दैवदण्डिनिपीडिताः ॥
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ।
ऋषयः साधु जानीत किमियं जनयिष्यति ॥
इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः ।
प्रत्यबुवंस्तान्मुनयो यत्तच्छृणु नराधिप ॥
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् ।
वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति ॥
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ।
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ॥
समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः ।
जरःकृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥
इत्यब्रुवंस्ततो राजन्प्रलब्धास्तैर्दुरात्मभिः । मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ।
तथोक्त्वा मुनयस्ते तु यथागतमथो ययुः ॥
अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैतन्मधुसूदनः ।
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ॥
एवमुक्त्वा हृषीकेशः प्रविवेश पुरं तदा ।
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ॥
श्वोभूतेऽथ ततः साम्बो मुसलं तदसूकत वै ।
येन वृष्णन्धककुले पुरुषा भस्मसात्कृताः ॥
वृष्ण्यन्धकविनाशाय किन्करप्रतिमं महत् ।
असूत सापजं घोरं तच्च राज्ञे न्यवेदयन् ॥
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ।
तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप ॥
अघोषयंश्च नगरे वचनादाहुकस्य ते ।
जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः ॥
अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह ।
सुरासवो न कर्तव्यः, सर्वैर्नगरवासिभिः ॥
यश्च नो विदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् ।
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ॥
ततो राजभयात्सर्वे नियमं चक्रिरे तदा ।
नराः सासनमाज्ञाय तस्य राज्ञो महात्मनः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0