भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.89

14.89.1

एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः ।
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ॥

14.89.2

तत्र वृद्धान्यथावत्स कुरूनन्यांश्च पार्थिवान् । अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः ।
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ॥

14.89.3

स प्रविश्य महाबाहुः पाण्डवानां निवेशनम् ।
पितामहीमभ्यवन्दत्साम्ना परमवल्गुना ॥

14.89.4

तथा चित्राङ्गदा देवी कौरवस्यात्मजाऽपि च । पृथां कृष्णां च सहिते विनयेनोपजग्मतुः ।
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ॥

14.89.5

ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च ।
द्रौपदी च सुभद्रा च याश्चाप्यन्या यदुस्त्रियः ॥

14.89.6

ऊषतुस्तत्र ते देव्यौ महार्ङशयनासने ।
सुपूजिते स्वयं कुन्त्या पार्थस्य हितकाम्यया ॥

14.89.7

स च राजा महातेजाः पूजितो बभ्रुवाहनः ।
धूतराष्ट्रं महीपालमुपतस्थे यताविधि ॥

14.89.8

युधिष्टिरं च राजानं भीमदींश्चापि पाण्डवान् ।
उपागम्य महातेजा विनयेनाभ्यवादयत् ॥

14.89.9

स तैः प्रेम्या परिष्वक्तः पूजितश्च यथाविधि ।
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ॥

14.89.10

तथैव च महीपालः कृष्णं चक्रगदाधरम् ।
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ॥

14.89.11

तस्मै कृष्णो ददौ राज्ञे महार्हमतिपूजितम् ।
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ॥

14.89.12

धर्मराजश्च भीमश्च फल्गुनश्च यमौ तथा ।
पृथक्पृथक् च ते चैनं मानार्थाभ्यामयोजयन् ॥

14.89.13

ततस्तृतीये दिवसे सत्यवत्यात्मजो मुनिः ।
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ॥

14.89.14

अद्यप्रभृति कौन्तेय यज्ञस्य समयो हि ते ।
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्तीह याजकाः ॥

14.89.15

अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् ।
बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ॥

14.89.16

एवमत्र महाराज दक्षिणाभिर्गुणीकुर ।
श्रीस्त्वां व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ॥

14.89.17

त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान् ।
ज्ञातिवध्याकृतं पापं प्रहास्यति नराधिप ॥

14.89.18

पवित्रं परमं चैतत्पावनानां च पावनम् ।
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ॥

14.89.19

इत्युक्तः स तु तेजस्वी व्यासेनामितबुद्धिना ।
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये ततः ॥

14.89.20

ततो यज्ञं महाबाहुर्वाजिमेधं महाक्रतुम् ।
बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम् ॥

14.89.21

तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः ।
परिक्रामन्ति शास्त्रज्ञा यतावद्द्विजसत्तमाः ॥

14.89.22

न तेषां स्खलितं किञ्चिदासीदपहुतं तथा ।
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ॥

14.89.23

कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः ।
चक्रस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ॥

14.89.24

अभिषूय ततो राजन्सोमं सोमपसत्तमाः ।
सवनान्यानुपूर्व्येण चक्रुः सास्त्रानुसारिणः ॥

14.89.25

न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह ।
क्षुधितो दुःखितो वाऽपि प्राकृतो वाऽपि मानवः ॥

14.89.26

भोजनं भोजनार्थिभ्यो दापयामास शत्रुहा ।
भीमसेनो महातेजाः सततं राजशासनात् ॥

14.89.27

संस्तरे कुशलाश्चापि सर्वकार्याणि याजकाः ।
दिवसेदिवसे चक्रुर्यथाशास्त्रानुदर्शात् ॥

14.89.28

नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः ।
नाव्रतो नानुपाध्यायो न च वादाविचक्षणः ॥

14.89.29

ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान्भरतर्षभ ।
खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ॥

14.89.30

देवदारुमयौ द्वौ तु यूपौ कुरुपतेर्मखे ।
श्लेष्मातकमयं चैकं याजकाः समकल्पयन् ॥

14.89.31

सर्वानेतान्यथाशास्त्रं याजकाः समकारयन् । शोभार्थं चापरान्यूपान्काञ्चनान्भरतर्षभ ।
स भीमः कारयामास धर्मराजस्य शासनात् ॥

14.89.32

ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः ।
महेन्द्रानुगता देवा यथा सप्तर्षिभिर्दिवि ॥

14.89.33

इष्टकाः काञ्चनीश्चात्र चयनार्तं कृता विभो ।
शुशुभे चयनं तच्च दक्षस्येव प्रजापतेः ॥

14.89.34

चतुश्चित्यश्च तस्यासीदष्टादशकरात्मकः ।
स रुक्मपक्षो निचितस्त्रिकोणो गरुडाकृतिः ॥

14.89.35

ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः ।
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ॥

14.89.36

ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये ।
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ॥

14.89.37

यूपेषु नियता चासीत्पशूनां त्रिशती तथा ।
अश्वरत्नोत्तरा यज्ञे कौन्तेयस्य महात्मनः ॥

14.89.38

स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसन्कुलः ।
गन्धर्वगणसन्कीर्णः शोभितोऽप्सरसां गणैः ॥

14.89.39

स किम्पुरुषसन्कीर्णः किन्नरैश्चोपशोभितः ।
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ॥

14.89.40

तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजर्षभाः ।
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ॥

14.89.41

नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः ।
विश्वावसुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः ॥

14.89.42

गन्धर्वा गीतकुशला नृत्येषु च विशारदाः ।
रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेषु वै ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc