भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.90

14.90.1

श्रपयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः ।
तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः ॥

14.90.2

ततः सञ्ज्ञप्य तुरगन्क विधिवद्याजकर्षभाः । उपसंवेशयाञ्चक्रुस्ततस्तां द्रुपदात्मजाम् ।
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ॥

14.90.3

उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजातयः ।
श्रपयामासुरव्यग्रा विधिवद्भरतर्षभ ॥

14.90.4

तं वपाधूमगन्धं तु धर्मराजः सहानुजैः ।
उपाजिघ्रद्यथासास्त्रं सर्वपापापहं तदा ॥

14.90.5

शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप ।
तान्यग्रौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ॥

14.90.6

संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः ।
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ॥

14.90.7

ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि ।
कोटीः सहस्रं निष्काणां व्यासाय तु वसुन्धराम् ॥

14.90.8

प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः ।
अब्रवीद्भरतश्रेष्ठं धर्मराजं युधिष्ठिरम् ॥

14.90.9

वसुधा भवतस्त्वेषां सन्न्यस्ता राजसत्तम ।
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिना ॥

14.90.10

युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः ।
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ॥

14.90.11

अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता ।
अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया ॥

14.90.12

वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम् ।
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ॥

14.90.13

नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः ॥
इदं नित्यं मनो विप्रा भ्रातॄणां चैव मे सदा ॥

14.90.14

इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा ।
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ॥

14.90.15

ततोऽन्तरिक्षे वागासीत्साधुसाध्विति भारत ।
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः ॥

14.90.16

द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम् ।
प्रोवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः ॥

14.90.17

दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् ।
हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धराऽस्तु ते ॥

14.90.18

ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् ।
यथाऽह भगवान्व्यासस्तथा त्वं कर्तुमर्हसि ॥

14.90.19

इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह ।
कोटिं कोटिं गवां प्रादाद्दक्षिणां त्रिगुणीकृताम् ॥

14.90.20

न करिष्यति तल्लोके कश्चिदन्यो नराधिपः ।
यत्कृतं कुरुराजेन मरुत्तस्यानुकुर्वता ॥

14.90.21

प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनो मुनिः ।
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ॥

14.90.22

धरण्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः ।
दूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह ॥

14.90.23

ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा ।
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम् ॥

14.90.24

यज्ञवाटे च यत्किञ्चिद्धिरण्यं सवि भूषणम् । तोरणानि च यूपांश्च घटान्पात्रीस्तथेष्टकाः ।
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ॥

14.90.25

अनन्तरं द्विजातिभ्यः क्षत्रिया जह्रिरे वसु । तथा विट्शूद्रसङ्घाश्च तथाऽन्ये म्लेच्छजातयः ।
कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ॥

14.90.26

ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् ।
तर्पिता वसुना तेन धर्मिराजेन धीमिता ॥

14.90.27

स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादितः ।
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ॥

14.90.28

श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा ।
चकार पुण्यकं तेन सुमहत्सङ्घशः पृथा ॥

14.90.29

गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह ।
सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव ॥

14.90.30

पाण़्डवाश्च महीपालैः समेतैरभिसंवृताः ।
अशोभन्त महाराज ग्रहस्तारागणैरिव ॥

14.90.31

राजभ्योपि ततः प्रादाद्रत्नानि विविधानि च ।
गजानश्वानलङ्कारान्त्रियो वासांसि काञ्चनम् ॥

14.90.32

तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले ।
विसृजञ्शुशुभे राजन्यथा वैश्रवणस्तथा ॥

14.90.33

आनीय च तथा वीरं राजानं बभ्रुवाहनम् ।
प्रदाय विपुलं वित्तं गृहात्प्रास्थापयनत्तदा ॥

14.90.34

दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ ।
स्वराज्येऽथ पितुर्धामान्स्वसुः प्रीत्या न्वयेशयत् ॥

14.90.35

नृपतींश्चैव तान्सर्वान्सुविभक्तान्सुपूजितान् ।
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ॥

14.90.36

गोविन्दं च महात्मानं बलदेवं महाबलम् ।
तथाऽन्यान्वृष्णिवीरांश्च प्रद्युम्नाद्यान्सहस्रशः ॥

14.90.37

पूजयित्वा महाराज यथाविधि महाद्युतिः ।
भ्रातृभिः सहितो राजा प्रास्थापरयदरिन्दमः ॥

14.90.38

एवं बभूव यज्ञः स धर्मिराजस्य धीमतः ।
बह्वन्नधनरत्नौघः सुरामैरेयसागरः ॥

14.90.39

सर्पिःपङ्का ह्रदा यत्र बभूवुश्चान्नपर्वताः ।
रसालकर्दमा नद्यो बभूवुर्भरतर्षभ ॥

14.90.40

भक्ष्यखाण्डवरागाणां क्रियतां भुज्यतां तथा ।
पशूनां वध्यतां चैव नान्तं ददृशिरे जनाः ॥

14.90.41

मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम् । मृदङ्गशङ्खनादैस्च मनोरममभूत्तदा ।

14.90.42

दीयतां भुज्यतां चापि तत्र शब्दो महानभूत् ।
दीयतां दीयतां चेति दिवारात्रमवारितम् ॥

14.90.43

तं महोत्सवसन्काशं हृष्टपुष्टजनाकुलम् ।
कथयन्ति स्म पुरुषा नानादेशनिवासिनः ॥

14.90.44

वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा ।
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc