भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.88

14.88.1

श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् ।
तन्मेऽमृतरसं पुण्यं मनो ह्लादयति प्रभो ॥

14.88.2

बहूनि किल युद्धानि विजयस्य नराधिपैः ।
पुनरासन्हृषीकेश तत्रतत्रेति न श्रुतम् ॥

14.88.3

किन्निमित्तं स नित्यं हि पार्थः सुखविवर्जितः ।
अतीव विजयो धीमानिति मे दूयते मनः ॥

14.88.4

सञ्चिन्तयामि कौन्तेयं रहो जिष्णुं जनार्दन ।
अतीव दुःखभागी स सततं पाण्डुनन्दनः ॥

14.88.5

किन्नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ।
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ॥

14.88.6

अतीवासुखभोगी स सततं कुन्तिनन्दनः । न हि पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किञ्चन ।
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ॥

14.88.7

इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् ।
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ॥

14.88.8

न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये ।
ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः ॥

14.88.9

स ताभ्यां पुरुषव्याघ्रो नित्यमध्वसु वर्तते ।
न चान्यदनुपश्यामि येनासौ दुःखभाजनम् ॥

14.88.10

इत्युक्तः पुरुषश्रेष्ठस्तदा कृष्णेन धीमता ।
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ॥

14.88.11

कृष्णा तु द्रौप्दी कृष्णं तिर्यक्सासूयमैक्षत प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ।
प्रख्युः सखा हृषीकेशः साक्षादिव धनञ्जयः ॥

14.88.12

तत्र भीमादयस्ते तु करवो याजकाश्च ये ।
रेमुः श्रुत्वा विचित्रां तां धनञ्जयकथां शुभाम् ॥

14.88.13

तेषां कथयतामेव पुरुषोऽर्जुनसन्कथाः ।
उपायाद्वचनाद्दूतो विजयस्य महात्मनः ॥

14.88.14

सोभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् ।
उपायातं नरव्याघ्रं फल्गुनं प्रत्यवेदयत् ॥

14.88.15

तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः ।
प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा ॥

14.88.16

ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत ।
आगच्छति नरव्याघ्रे कौरवाणां धुरन्धरे ॥

14.88.17

ततो रेणुः समुद्भुतो विबभौ तस्य वाजिनः ।
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ॥

14.88.18

तत्र हर्षकरीर्वाचो नराणां शुश्रुवेऽर्जुनः ।
दिष्ट्याऽसि पार्थ कुशली धन्यो राजा युधिष्ठिरः ॥

14.88.19

कोन्योहि पृथिवीं कृत्स्नां जित्वाहि युधि पार्थिवान् चारयित्वा हयश्रेष्ठमुपागच्छेदृतेऽर्जुनात् ॥

14.88.20

ये व्यतीता महात्मानो राजानः सगरादयः ।
तेषामपीदृशं कर्म न कदाचन शुश्रुम ॥

14.88.21

नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः ।
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि ॥

14.88.22

इत्येवं वदतां तेषां पुंसां कर्णसुखा गिरः ।
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ॥

14.88.23

ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः ।
धृतराष्ट्रं पुरस्कृत्य तं प्रत्युद्ययतुस्तदा ॥

14.88.24

सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः ।
भीमादींश्चापि सम्पूज्य पर्यष्वजत केशवम् ॥

14.88.25

तैः समेत्यार्चितस्तांश्च प्रत्यर्च्याथ यथाविधि ।
विशश्राम महाबाहुस्तीरं लब्ध्वेव पारगः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc