भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.87

14.87.1

समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् ।
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमभाषत ॥

14.87.2

उपयाता नरव्याघ्रा य एते पृथिवीश्वराः ।
एतेषां क्रियतां पूजा पूजार्हा हि नराधिपाः ॥

14.87.3

इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना ।
भीमसेनो महातेजा यमाभ्यां सह पाण्डवः ॥

14.87.4

अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् ।
बलदेवं पुरस्कृत्य सर्वप्राणभूतां वरः ॥

14.87.5

युयुधानेन सहितः प्रद्युम्नेन गदेन च ।
निशठेनाथ साम्बेन तथैव कृतवर्मणा ॥

14.87.6

तेषामपि परां पूजां चक्रे भीमो महारथः ।
विविशुस्ते च वेश्मानि रत्नवन्ति च सर्वशः ॥

14.87.7

युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः ।
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम् ॥

14.87.8

स तं प्रपच्छ कौन्तेयः पुनःपुनररिन्दमम् ।
धर्मजः शक्रजं जिष्णुं समाचष्ट जगत्पतिः ॥

14.87.9

आगमद्द्वारकावासी समाप्तः पुरुषो नृप ।
योऽद्राक्षीत्पाण्डवश्रेष्ठ बहुसङ्ग्रामकर्शितम् ॥

14.87.10

समीपे च महाबाहुमाचष्ट च मम प्रभो ।
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ॥

14.87.11

इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः ।
दिष्ट्या स कुशली जिष्णुरुपायाति च माधव ॥

14.87.12

यदिदं सन्दिदेशास्मिन्पाण्डवानां बलाग्रणीः ।
तदाख्यातमिहेच्छामि भवता यदुनन्दन ॥

14.87.13

इत्युक्तो धर्मराजेन वृष्ण्यन्धकपतिस्तदा ।
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ॥

14.87.14

इदमाह महाराज पार्थवाक्यं नरेश्वरः ।
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ॥

14.87.15

आगमिष्यन्ति राजानः सर्वे वै कौरवर्षभ ।
प्राप्तानां महतां पूजा कार्या ह्येतत्क्षमं हि नः ॥

14.87.16

इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद ।
तथा चात्ययिकं न स्याद्यदर्घाहरणेऽभवत् ॥

14.87.17

कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् ।
राजद्वेषान्न नश्येयुरिमा राजन्पुनः प्रजाः ॥

14.87.18

इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् ।
धनञ्जयस्य नृपते तन्मे निगदतः शृणु ॥

14.87.19

उपयास्यति यज्ञं नो मणलूरपतिर्नृपः ।
पुत्रो मम महातेजा दयितो बभ्रुवाहनः ॥

14.87.20

तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् ।
स तु भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ॥

14.87.21

इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः ।
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc