भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.77

14.77.1

जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा । विसृज्य याते तुरगे सैन्धवान्प्रति भारत ॥

14.77.2

सैन्धवैरभवगद्युद्धं ततस्तस्य किरीटिनः ।
हतशेषैर्महाराज हतानां च सुतैरपि ॥

14.77.3

तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् ।
प्रत्युद्ययुरमृष्यन्ते राजानः पाण्डवर्षभम् ॥

14.77.4

अश्वं च तं परामृश्य विषयान्ते विषोपमात् ।
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ॥

14.77.5

तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च ।
बीभत्सुं प्रत्यपद्यन्त् पदातिनमवस्थितम् ॥

14.77.6

ततस्ते तं महावीर्या राजानः पर्यवारयन् ।
जिगीषन्तो नरव्याघ्रं पूर्वं विनिकृता युधि ॥

14.77.7

ते नामान्यपि गोत्राणि कर्मणि विविधानि च ।
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ॥

14.77.8

ते किरन्तः शरव्रातान्वारणप्रतिवारणान् ।
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ॥

14.77.9

ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे ।
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ॥

14.77.10

ते तमाजघ्निरे वीरं निवातकवचान्तकम् ।
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ॥

14.77.11

ततो रथसहस्रेण गजानामयुतेन च ।
***ष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन् ॥

14.77.12

** स्मरन्तो वधं वीराः सिन्धुराजस्य चाहवे ।
जयद्रथस्य कौरव्य समरे सव्यसाचिना ॥

14.77.13

ततः पर्जन्यवत्सर्वे शरवृष्टीरवासृजन् ।
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ॥

14.77.14

स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः ।
पञ्चरान्तरसञ्चारी शकुन्त इव भारत ॥

14.77.15

ततो हाहाकृतं सर्वं कौन्तेय शरपीडिते ।
त्रैलोक्यमभवद्राजन्रविरासीद्रजोरुणः ॥

14.77.16

ततो ववौ महाराज मारुतो रोमहर्षणः ।
राहुरग्रसदादित्यं पर्वणीव विशाम्पते ॥

14.77.17

उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः ।
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ॥

14.77.18

मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः ।
सप्तर्षयो जातभयास्तथा देवर्षयोपि च ॥

14.77.19

शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतन् ।
विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा ॥

14.77.20

रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः ।
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ॥

14.77.21

एवमासीत्तदा वीरे शरवर्षेण संवृते ।
फल्गुने भरतश्रेष्ठ तदद्भुतमिवाभवत् ॥

14.77.22

तस्य तेनावकीर्णस्य शरजालेन सर्वतः ।
मोहात्पपात गाण्डीवमावापश्च करादपि ॥

14.77.23

तस्मिन्मोहमनुप्राप्ते शरजालं महत्तदा ।
सैन्धवा मुमुचुस्तूर्णं गतसत्वे महारथे ॥

14.77.24

ततो मोहं समापन्नं ज्ञात्वा पार्थं द्विवौकसः ।
सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन् ॥

14.77.25

ततो देवर्षयः सर्वे तथा सप्तर्षयोपि च ।
ब्रह्मर्षचस्च विजयं जेपुः पार्थस्य धीमतः ॥

14.77.26

ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव ।
तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् ॥

14.77.27

विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः ।
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ॥

14.77.28

ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः ।
ववर्ष धनुषा पार्थो वर्षाणीव पुरन्दरः ॥

14.77.29

ततस्ते सैन्धवा योधाः सर्व एव सराजकाः ।
नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः ॥

14.77.30

तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः ।
मुमुचुस्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः ॥

14.77.31

तांस्तु सर्वान्नरव्याघ्रः सैन्धवान्व्यचरद्बली ।
अलातचक्रवद्राजञ्शरजालैः समार्पयत् ॥

14.77.32

तदिन्द्रजालप्रतिमं बाणजालममित्रहा ।
विसृज्य दिक्षु सर्वासु महेन्द्रि इव वज्रभृत् ॥

14.77.33

मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः ।
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc